This page has been fully proofread once and needs a second look.

११०
 
शाङ्करवेदान्तकोशः
 
इति सम्बन्धमात्रमुक्तम्, न सम्बन्धविशेषः कश्चित् । उपसंहारे तु - स एतान् ब्रह्म

गमयति (छा० ४/१५/६) इति सम्बन्धविशेषोऽतिवाह्यातिवाहकलक्षण उक्तः

(ब्र० सू० ४/३/५ शा० भा० ) ।
 

 
आत्मभावः
 
, आत्मभाव
अन्तःकरणाश्रयः । यथा - आत्मनो भावोऽन्तःकरणाश्रयः ।
(गी० १०/११ शा० भा० ) ।
 
-
 

 
आत्मभावस्थः, आत्मभावस्थ
क - आत्मभावे
अन्तःकरणाश्रयः । यथाये स्थितः - आत्मनो भावोऽन्तःकरणाश्रयः ।
 
-
 
आत्मभावस्थः - क - आत्मभावे अन्तःकरणाश्रये स्थितः - आत्मनो भावोऽन्तः-
-
करणाश्रयस्तस्मिन्नेव स्थितः (गीता१०/११ शां भा० ) । ख- अन्तःकरणगृहम् ।

आत्मभावस्थ आत्मनो भावोऽन्तः करणगृहं तत्स्थः (तत्रैव नील०) ग- आत्माकारान्त:-

करणवृत्तिः आत्मभावस्थ आत्माकारान्तःकरणवृत्तौ विषयत्वेन स्थितोऽहं स्वप्रकाश-

चैतन्यानन्दाद्वयलक्षण आत्मा तेनैव यद्विषयान्तःकरणपरिणामरूपेण ज्ञानदीपेन

दीपसदृशेन ज्ञानेन.... नाशयामि (तत्रैव म० सू०) । घ- आत्मभावस्थो ज्ञानदीपेन

भास्वतेत्युक्तम् । आत्मनो भावोऽन्तःकरणाशयस्तस्मिन्नवस्थितः तत्त्वमस्यादि-

महावाक्योत्त्थान्तःकरणवृत्त्यभिव्यक्तः सन् तेनैव वृत्तिज्ञानदीपेन भक्त्यादिनां

नाशयामीत्यर्थः (तत्रैव भाष्यो०) ।
 

 
आत्मभेदबावादः, आत्मभेदवाद
ग्रंथा – चार्वाकास्तु - स वा एष पुरुषोऽन्नरसमय इत्यादिश्रुतेः

प्रदीप्तगृहात् स्वपुत्रं परित्यज्यापि स्वस्य निर्गमदर्शनात् स्थूलोऽहं कृशोऽहमित्या-

धनुभवाच्च स्थूलशरीरमात्मेति वदन्ति (वे० सा० ३७) । अपरश्चार्वाक:- ते ह

प्राणाः प्रजापतिं पितरमेत्य ब्रूयुः इत्यादिश्रुतेरिन्द्रियाणामभावे शरीरचलनाभावात्

काणोऽह-मित्याद्यनुभवाच्चेन्द्रियाण्यात्मेति वदति (तत्रैव ३८) । अपरश्चार्वाकः-

अन्योऽन्यतर आत्मा प्राणमय इत्यादिश्रुतेः प्राणाभावे इन्द्रियादिचलनायोगादह-

मशनायावानहं पिपासावान् इत्याधुनभवाच्च प्राण आत्मेति वदति (तत्रैव ३९)।

अपरस्तु चार्वाकः- अन्योऽन्तर आत्मा मनोमय इत्यादिश्रुतेर्मनसि सुप्ते प्राणादेरभावादहं

संकल्पवानहमहं विकल्पवानित्याद्यनुभवाच्च मन आत्मेति वदति (तत्रैव ४० ) ।

बौद्धस्तु - अन्योऽन्यतर आत्मा विज्ञानमय इत्यादिश्रुतेः कर्तुरभावे करणस्य शक्त्य-

भावादहं कर्ताऽहं भोक्तेत्याद्यनुभवाच्च बुद्धिरात्मेति वदति (तत्रैव ४१ ) । प्राभाकर -

तार्किकौ - तु अन्योऽन्तर आत्मानन्दमय इत्यादिश्रुतेर्बुद्ध्यादीनामात्मज्ञाने लयदर्शना-

दहमज्ञोऽहमज्ञानीत्याद्यनुभवाच्चाज्ञानमेवात्मेति वदतः (तत्रैव ४२) । भाट्टस्तु -

प्रज्ञानघन एवानन्दमय इत्यादिश्रुतेः सुषुप्तौ प्रकाशाप्रकाशसद्भावान् मामहं न
 
-
 
-