This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
१०९
 
-
 
आचार्यः – क. उपनीय तु यः शिष्यं वेदमध्यापयेद् द्विजः । साङ्गं च सरहस्यं
च तमाचार्यं प्रचक्षते (मनुस्मृ० २।२२) । ख. उपनीय ददद् वेदमाचार्यः स उदाहृतः
(या० स्मृ० १-३४) । आचिनोति च शास्त्रार्थान् स्वयमाचरते तु यः । शिष्यान् ग्राहयते
यस्मात् तस्मादाचार्य उच्यते ।
 
-
 
आजानदेवः - देवो द्विविधः कर्मदेव आजानदेवश्च । अग्निहोत्रादिकर्मभिर्देवत्वं
प्राप्तः कर्मदेवः । आजानतः उत्पत्तितो यो देवः स आजानदेवः । यथा - ये शतं
गन्धर्वलोक आनन्दाः स एकः कर्मदेवानामानन्दो ये कर्मणा देवत्वमभिसम्पद्यन्तेऽथ
ये शतं कर्मदेवानामानन्दाः स एक आजानदेवानामानन्दः । (बृ० आ० उ० ४ । ३१३३)
अत्र शाङ्करभाष्ये – अग्निहोत्रादिश्रौतकर्मणा ये देवत्वं प्राप्नुवन्ति ते कर्मदेवाः । तथैव
आजानदेवानामेक आनन्दः - आजानत एव उत्पत्तित एव ये देवास्ते आजानदेवाः ।
यथा च वेदराशिर्ब्रह्मप्रभवःसन्नाजानसिद्धानावरणभूतार्थमात्रगोचरतबुद्धिपूर्वको
यथा तथा कपिलादीनामपि श्रुतिस्मृतिप्रथिताजानसिद्धभावानां स्मृतयोऽनावरण-
सर्वविषयतद्बुद्धिप्रभवा इति न श्रुतिभ्योऽमूषामस्ति कश्चिविशेषः (ब्र० सू०
२।१।१ भाम० ) । वेदान्तकल्पतरौ - आजानसिद्धा स्वभावसिद्धा च सानावरण-
भूतार्थमात्रगोचरा च (तत्रैव) ।
 
-
 
-
 
आतिवाहिकी - अग्न्यादिदेवता । शरीरपातानन्तरं तत्तल्लोकाधिकारिणो देवा-
स्तत्तल्लोकान् जीवात्मनो नयन्ति । ते देवा अतिवाहिकी देवतेतिपदेन व्यवह्रियन्ते ।
यथा – अग्न्याद्या देवता एवातिवाहिक्यो गृह्यन्ते (ब्र० सू० ४/२/२१ शा० भा०) ।
यथा च - तेष्वेवार्चिरादिषु संशयः - किमेतानि मार्गचिह्नानि उत भोगभूमयः
अथवा नेतारो गन्तॄणामिति । तत्र मार्गलक्षणभूता अर्चिरादय इति प्राप्तम् । तत्स्व-
रूपत्वादुपदेशस्य .... एवं प्राप्ते ब्रूमः - आतिवाहिका एवैते भवितुमर्हन्ति । कुतः-
तल्लिङ्गात् । तथाहि चन्द्रमसो विद्युतं तत् पुरुषोऽमानवः स एतान् ब्रह्म गमयति ।
(छा० ४।१५।५) इति सिद्धवद् गमयितृत्वं दर्शयति (आतिवाहिकास्तल्लिङ्गात् -
इति ब्र०सू० ४।३।४ शा० भा०) । ये तावदर्चिरादिमार्गास्ते देहवियोगात् सपिण्डित-
करणग्रामा इत्यस्वतन्त्रा अर्चिरादीनामप्यचेतनत्वादस्वातन्त्र्यमित्यतोऽर्चिराद्यभिमानि-
तथा च लोके
नश्चेतनादेवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ।
प्रसिद्धेष्वप्यातिवाहिकेष्वेवं जातीयक उपदेशो दृश्यते । गच्छ त्वमितो बलवर्माणं ततो
जयसिहं ततः कृष्णगुप्तमिति । अपि चोपक्रमे तेर्चिरभिसम्भवन्ति (बृ० ६।२।१५ )
 
….....