This page has been fully proofread once and needs a second look.

१०८
 
शाङ्करवेदान्तकोशः
 
स आगम इति शाब्दिकाः
 
वदन्ति । ४. साक्षिपूर्वकं लिखितं पत्रम् ( दस्तावेज
 
-
 
-
 

इति लोके) यथा - आगमो निष्फलस्तत्र श्रुतिः स्तोकमपि यत्र नो (वीरमित्रो०

२ दाय०) इत्यादौ आगमशब्दार्थः व्यवहारशास्त्रज्ञः । ४. स्वत्वहेतुः प्रतिग्रहक्रियादि-

रागमः । ( याज्ञ० स्मृतौ २ अ० २७ श्लो० मीताक्षरायाम् ) । ५. उत्पत्तिः यथा

आगमापायिनो नित्याः ।(गीतायाम्० २।१४) । ६. आसमन्ताद् गमयति = बोधयतीति

आगमः, सर्वाणि शास्त्राणि । ७. आगमनमेवागमः । यथा - अव्यक्ताद् व्यक्तयः

सर्वाः प्रभवन्त्यहरागमे रात्र्यागमे प्रलीयन्ते । (भगवद्गीतायाम् १८/८) १८.

सामाधुपायः । यथा - आगमैः सदृशारम्भः आरम्भसदृशोदयः । (रघुवंशे १ । १५) ।

९. आप्तवाक्यम् । यथा आगमो नामाप्रवाक्यम् । आप्तवाक्यं प्रमाणम् । (तर्कसंग्रहे ।

१०. शास्त्रविशेषः । यथा - आगतं शिववक्त्रेभ्यो गतं च गिरिजानने । मतं

च वासुदेवस्य तस्मादागम उच्यते । (रुद्रयामले) तथा - आचारकथनाद् दिव्यगति -

प्राप्तिविधानतः । माहात्म्यतत्वकथनादागमः कथितः प्रिये । सृष्टिश्च प्रलयश्चैव

देवतानां यथार्चनम् । साधकं चैव सर्वेषां पुरश्चरण एव च ॥ षट्कर्मसाधनञ्चैव

ध्यानयोगश्चतुर्विधः । सप्तभिर्लक्षणैर्युक्तमागमं तद् विदुर्बुधाः । (कुलार्णवतन्त्रे ) ।

११. आप्तेन दृष्टोऽनुमितो वार्थः । यथा- आगमेन दृष्टोऽनुमितो वार्थः परत्र

स्वबोधसंक्रान्तये शब्देनोपदिश्यते । शब्दात् तदर्थविषया वृत्तिः श्रोतुरागमः । यस्याश्रद्धेयार्थो

वक्ता न दृष्टानुमिताऽर्थः स प्लवते । मूलवक्तरि तु दृष्टानुमितार्थे निर्विप्लवः स्यात्

(पा० यो० सू० १ ।७ त० वै०) ।
 

 
आघातः
 
तद्धि
 
, आघात
१. चत्वारि आघातिकर्माणि, तद्यथा वेदनीयं कर्म

शुक्लपुद्गलविपाकहेतुः, तद्धि बन्धोऽपि न निःश्रेयसपरिपन्थिः तत्त्वविज्ञानाविघात -

कत्वात् । शुक्लपुद्गलारम्भकवेदनीयकर्मानुगुणं नामिकं कर्म ।
तद्धि
शुक्लपुद्गलस्याद्यावस्थां कललबुद्बुदादिमारभते । गोत्रिकमव्याकृतं ततोऽप्याद्यं

शक्तिरूपेणावस्थितम् । आयुष्कं त्वायुः कायति कथयत्युत्पादनद्वारेत्यायुष्कम् ।

तान्येतानि शुक्लपुद्गलाद्याश्रयत्वादघातीनि कर्माणि । (ब्र० सू० २ ।२।३३ भाम०)

आर्हतदर्शने । २. ताडनम् यथा दण्डाघातः इति लोके ।
 
1
 
-
 

 
आचारः, आचार
१ . गुरूक्तस्यार्थस्याङ्गीकरणमाचार इति योगाचारबौद्धा वदन्ति ।

(सर्व प्र० ३० बौद्ध०) २. सत्पुरुषाणां प्रवृत्तिविषयत्वम् - विद्वेषरागरहिता अनुतिष्ठन्ति

यं द्विजाः । विद्वांस्तं सदाचारं धर्ममूलं विदुर्बुधाः (म० स्मृ० १ । ३) ।