2023-03-21 04:21:11 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
१०७
१. विषयता निरूप्यनिरूपकभावापन्ना तत्तद्विषयता वा । यथा अयं
घटः इत्याकारकं ज्ञानमित्यादौ तादृशं विषयता (वाक्यार्थ० २) । २. अभेदः
(तादात्यम्) यथा इत्याकारकं ज्ञानमित्यादौ (वाक्यार्थ० २) ३. यथा वा तथा
चायमित्याकार उपनय इत्पादौ (दीधि०) अभिनयः । उदाहरणं पूर्वोक्तमेव
इत्याकार उपनय इति । ४. अवयवसंस्थानविशेष इति काव्यज्ञाः । ५. सांख्यास्तु
अभेदस्थानीयः पदार्थविशेषः विषयिताविशेषो वा । यथा यत्सम्बद्धं सत् तदाकारोल्लेखि
विज्ञानं तत्प्रत्यक्षमित्यादौ इत्याहुः । (सा० सू०) । ६. वर्णविशेष आकार इति शाब्दिकाः ।
७. अतथाभूतस्य तथाभूतेन सामान्यम् । तद्यथा स्थाण्वाकारः पुमान् इत्यत्र पुरुषस्य
स्थाणोराकारः पुरुषेण यत् सामान्यं सः (न्या० वा० १।१।१३) ।
आकाश: (आकाशम्)
-
१. नभः । २. ब्रह्म । यथा तस्माद् ब्रह्मणि गौण
आकाशशब्दो भवितुमर्हति ।.... अकाशशब्देनेह ब्रह्मणो ग्रहणं युक्तम् आकाशस्तल्लिङ्गात् ।
(ब्र० सू० १ । १ । २२ शां भा० ) । यथा च आकाश इति होवाच इति किं
मुख्याकाशपदानुरोधेन अस्य लोकस्य का गतिः इति । सर्वाणि ह वा इमानि भूतानि
इति च ज्यायान् इति च परायणमिति च कथञ्चित् व्याख्यायताम् उतैतदनुरोधेनाकाश-
शब्दो भक्त्या परमात्मनि व्याख्यायताम् इति ।... आकाशशब्देन ब्रह्मणो ग्रहणम् ।
कुतः तल्लिङ्गात् । (तत्रैव शां० भा० १ । १ । २२) । एवमेव ब्र० सू० १/२/१५ शा०
भा० भामत्यां वे० क० तरावपि । ३. आवरणाभावमात्रमाकाशमिति । (ब्र० सू०
२।२।२२) ४. अथैतमेवाध्वानं पुनर्निवर्तते । यथैतमाकाशमाकाशाद् वायुं वायुर्भूत्वा
धूमो भवति धूमो भूत्वाऽभ्रं भवति, अभ्रं भूत्वा मेघो भवति मेघो भूत्वा प्रवर्षति
( ब्र० सू० ३/१/२२ शां भा० ) ।
आगमः
१ . शब्दः शब्दप्रमाणम्, श्रुतिः, आ सम्यग् गम्यते ज्ञायतेऽर्थोऽनेनेति ।
यथा- अथागमो निरूप्यते । यस्य वाक्यस्य तात्पर्यविषयीभूतसंसर्गो मानान्तरेण
न बाध्यते तद्वाक्यं प्रमाणम् (वे० प० ४ परि०) । अत्रैव अर्थदीपिकाव्याख्यायाम्-
उपमाननिरूपणानन्तरं शब्दो निरूप्यत इत्यर्थः । तत्रागमप्रमाणं लक्षयति - यस्येति ।
इतिशाङ्करवेदान्तिनः। २. वेदशास्त्रमन्त्रादि । यथा आगमः खल्वपि ब्राह्मणेन
निष्कारणो धर्मः षडङ्गो वेदोऽध्येयो ज्ञेयश्चेत्यादौ (पा० म० भा० १1१1१)
आगमलक्षणं व यथोक्तं प्रामाणिकैः सिद्धं सिद्धैः प्रमाणैस्तु हितं वात्र परत्र वा ।
आगमः शास्त्रमाप्तानामाप्तास्तत्त्वार्थवेदिनः । इति । ३. प्रत्ययादेशभिन्नत्वे सति
साक्षाल्लक्ष्यसंस्कारतया शास्त्रविहितः प्रकृतिप्रत्ययानुपघातको यः अट् इट् इत्यादिः
-