2023-03-12 05:00:34 by ambuda-bot
This page has not been fully proofread.
१०६
शाङ्करवेदान्तकोशः
त्वात् । उदाहरणान्तरेष्वपि दुर्बलत्वप्रयोजकाकाङ्क्षाविरह एव द्रष्टव्यः (वे० प०
४ प०) । इत्यद्वैतवेदान्तिनो मीमांसकाश्च यथा च पदस्य पदान्तरव्यतिरेक-
प्रयुक्तान्वयाननुभावकत्वम् (त० सं० श० प०) । तदर्थश्च यत्पदस्य यत्पदाभावत्व-
प्रयुक्तमन्वयबोधाजनकत्वं तत्पदसमभिव्याहृततत्पदत्वम् (तत्रैव नील० व्याख्यायाम्) ।
आकाङ्क्षा द्विविधा - उत्पाद्या आकाङ्क्षा उत्थिताकाङ्क्षा च । आकाङ्क्षा च
शाब्दबोधगोचरेच्छा शब्देनैव विषयसिद्धिद्वारा निवर्त्यते । शाब्दी हि आकाङ्क्षा शब्देनैव
प्रपूर्यते । अनेन शब्दकल्पना आवश्यकी ।
-
आकाशम् – १ . सर्वमूर्त्तिविभाजकः पदार्थः । यथा भर्तृहरिराह - आधारशक्तिः
प्रथमा सर्वसंयोगिनामयम् । इदमत्रेति भावानामभावानां च कल्प्यते ॥ १ ॥ व्यपदेशस्व-
माकाशनिमित्तं तु प्रचक्षते । कालात् क्रिया विभज्यन्ते आकाशात् सर्वमूर्तयः ॥२॥
एतावानेव भेदोऽयमभेदोपनिबन्धनः ॥ ( ३ १/, वाक्यप० ।) २. सांख्यास्तु निष्क्रमणादिकं
कर्म आकाशानुमापकमिति (वै० सू० २।१।२०) । (सर्व० द० पृ० १२८) । अयं
भावः निष्क्रमणप्रवेशनाद्युप्रेक्षणधर्मवत्त्वादाकाशसिद्धिरिति सांख्यादयो मन्यन्ते ।
एतदभिप्रायेण सुश्रूते उक्तम्- अन्तरिक्षात्तु शब्दः, शब्देन्द्रियं सर्वच्छिद्रसमूहो
विविक्तता चेति । वेदान्तिनोऽपि शब्दः श्रोत्रेन्द्रियं चापि छिद्राणि च विविक्तता । वियतो
दर्शिता एते. गुणा गुणविवारिभिः इत्याहुः (वाच०) । अत्रेदं बोध्यम् । ३. शब्दगुणकम् ।
तच्चैकं विभु नित्यं च । तच्च लाघवादेकम् । सर्वत्र कर्मोपलम्भाद् विभु । विभुत्वाच्च
नित्यम् । तथापि कर्णशष्कुल्यवच्छिन्नं सत् शब्दग्राहकश्रोत्रेन्द्रियात्मकम् (त० कौ० )
इति न्यायवैशेषिकाः अद्वैतवेदान्ते शब्दो न केवलमाकाशमात्रस्य गुणः किन्तु
वाय्वादीनामपि गुणः । यतो आकाशाद् वायोरुत्पत्तिर्मन्यते एतन्मते । नैयायिका
नैवमङ्गीकुर्वन्ति । वेदान्तिमते- आकाशाद् वायुर्वायोरग्निरग्नेरापोऽद्भ्यः पृथिवी (तै०
उ० ३ । १) इति श्रुतिर्मानम् । नैयायिकमते श्रुतिर्मानं नास्ति । उक्तं च पञ्चदश्याम्-
शब्दस्पर्शी रूपरसौ गन्धो भूतगुणा इमे । एकद्वित्रिचतुःपञ्चगुणा व्योमादिषु क्रमात् ।
प्रतिध्वनिर्वियच्छब्दः वायौ वीसीतिशब्दनम् । अनुष्णाशीतसंस्पर्शो वह्नौ
भुगुभुगुध्वनिः । उष्णस्पर्शः प्रभारूपं जले बुलुबुलुध्वनिः । शीतस्पर्शः शुक्लरूपं
रसो माधुर्यमीरितम् । भूमौ कडकडाशब्दः काठिन्यं स्पर्श उच्यते नीलादिकं चित्ररूपं
मधुराम्लादिको गुणः । यथा च - न च शब्दस्याकाशमात्रगुणत्वम् । वाय्वादावपि
तदुपलम्भात् । न चासौ भ्रमः बाधकाभावात् (वे० प० ७ प्र०) ।