2023-03-12 05:00:33 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
-
अंशः – १ . भागः । यथा अंशः पादो भाग इत्यनर्थान्तरम् (ब्र० सू० २।३।४४
शा० भा० ) । २. सर्वे चांशकलाः प्रोक्ताः कृष्णस्तु भगवान् स्वयम् (भागवते १॥
३ । २८ ) । इति श्लोकव्यारव्यायां श्रीश्रीधरस्वामिभिरुच्यते - अंशः शक्तिसमावेशः
कला ज्ञानप्रवोधनम् । ३ अंश इव अंशः । यथा - अतो ब्रवीति- अंश इति । जीव
ईश्वरस्यांशो भवितुमर्हति । यथाग्नेर्विस्फुल्लिङ्गः । अंश इवांशो नहि निरवयवस्य
मुख्योंऽशः सम्भवति ।....अतो भेदाभेदावगमाभ्यामंशत्वागमः (ब्र० सू० २ ।३।४३
शाळं भा० )
१०५
अंशाशिभावः - एकदेशैकदेशि विकारविकारित्वं यावत् । यथा- अतो
न पण्डितैर्बह्मस्वरूपप्रतिपत्तिविषये ब्रह्मणोंऽशांश्येकदेशैकदेशिविकारविकारित्व-
कल्पना कार्या सर्वकल्पनापनयनार्थसारपस्त्वात् सर्वोपनिषदाम् (बृ० आ० उ०
२।१।२ शा० भा० )
-
-
अंशित्वम् – कार्यत्वम् । यथा - अंशित्वात् कार्यत्वात् । ननु पटे तन्त्ववच्छिन्न-
चिदेवोपादानम्, न तु तन्तुरिति मते सिद्धसाधनम् । तादात्म्यसम्बन्धेन तन्तौ
पटस्यात्यन्ताभावसत्त्वात् (अ०सि०अं०प्र०गौ०प्र०) । यथा च - अयं पटः एतत्तन्तु-
निष्ठात्यन्ताभावप्रतियोगी अंशित्वात् इतरांशिवत् (त० प्र० मि० प्र०) । यथा च -
अंशिनः स्वांशगात्यन्ताभावस्य प्रतियोगिनः । अंशित्वादितरांशीव दिगेषैव गुणादिषु
(वे० प० अनु० प० त० प्र० ८ ) ।
-
आकाङ्क्षा - यथा - तत्र पदार्थानां परस्परजिज्ञासाविषयत्वयोग्यत्वमाकाङ्क्षा ।
क्रियाश्रवणे कारकस्य कारकश्रवणे क्रियायाः करणश्रवणे कर्तव्यतायाश्च जिज्ञासा-
विषयत्वात् । अजिज्ञासोरपि वाक्यार्थबोधाद् योग्यत्वमुपात्तम् । तदवच्छेदकं च
क्रियात्वकारकत्वादिकमिति नातिव्याप्तिः गौरश्वः इत्यादौ । अभेदान्वये च समानविभक्तिक-
प्रतिपाद्यत्वं तदवच्छेदकमिति तत्त्वमस्यादिवाक्येषु नाव्याप्तिः । एतादृशाकाङ्क्षाभि-
प्रायेणैव बलाबलाधिकरणे - सा वैश्वदेव्यामिक्षा वाजिभ्यो वाजिनम् इत्यत्र वैश्वदेव-
यागस्यामिक्षाऽन्वितत्वेन न वाजिनाकाङ्क्षेत्यादिव्यवहारः । न तु तत्रापि वाजिनस्य
जिज्ञासाऽविषयत्वेऽपि तद्योग्यत्वमस्त्येव । प्रदेयद्रव्यत्वस्य यागनिरूपितजिज्ञासा-
विषयतावच्छेदकत्वादिति चेत्, न । स्वसमानजातीयपदार्थान्वयविरहसहकृतप्रदेय-
द्रव्यत्वस्यैव तदवच्छेदकत्वेन वाजिनद्रव्यस्य स्वसमानजातीयामिक्षाद्रव्यान्वयबोध-
सहकृतत्वेन तादृशावच्छेदकाभावात् । आमिक्षायां तु नैवम् । वाजिनान्वयस्य तदानुपस्थित-