2023-03-12 05:00:33 by ambuda-bot
This page has not been fully proofread.
१०४
शाङ्कुरवेदान्तकोशः
-
-
कष्टतमं सर्वदोषाणां सर्वानर्थप्रवृत्तीनां च मूलम् (त० भाष्यो०) । यथा च-
कार्यकारणसंघात आत्मप्रत्ययोऽहंङ्कारः (गी० ३।२७ शा० भा०, नी० क०, म०
सू० भाष्यो०, श्रीधरी) । यथा च अहमित्यभिमानः । स च शरीरादिविषयको
मिथ्याज्ञानविशेष उच्यते (गौ० वृ० ४।२।१ ) ।२. अभिमानाश्रयोऽन्तः करणमहंङ्कारः ।
सच वैकारिकतैजसतामसभेदेन त्रिविधः (वेदान्तिनः) । ३. महत्तत्त्वजन्यः पञ्चतन्मात्रादीनां
कारणीभूतस्तत्त्वविशेषोऽहंकारः इति साङ्ख्याः ।
-
-
अहं ब्रह्मास्मि - वेदान्ते चत्वारि महावाक्यानि प्रसिद्धानि - १. प्रज्ञानं ब्रह्म
(ऐ० आ० ५३) २. अहं ब्रह्मास्मि (बृ० उ० १/४/१०) ३. तत् त्वमसि (छा०
उ० ३।८।७) ४. अयमात्मा ब्रह्म (मा० उ० २) । एषु अहं ब्रह्मास्मि इति वाक्यम्
अनुभववाक्यम् । अपराणि त्रीणि उपदेशवाक्यानि । अस्यार्थ एवं भवति । यथा-
अथाधुना अहं ब्रह्मास्मि इत्यनुभववाक्यार्थो वर्ण्यते । एवमाचार्येण अध्यारोपापवादपुरः-
सरं तत्त्वं पदार्थौ शोधयित्वा वाक्येनाखण्डार्थेऽवबोधितेऽधिकारिणोऽहं नित्यशुद्धबुद्ध-
मुक्तसत्यस्वभावपरमानन्दानन्ताद्वयब्रह्मास्मीत्यखण्डाकाराकारिताचित्तवृत्तिरुदेति । सा
तु चिप्रतिबिम्बसहिता सती प्रत्यगभिन्नमज्ञातं परं ब्रह्म विषयीकृत्य तद्गताज्ञानमेव
बाधते । तदा पटकारणतन्तुदाहे पटदाहवदखिलकारणेऽज्ञाने बाधिते सति तत्कार्य-
स्याखिलस्य बाधितत्वात् तदन्तर्भूताखण्डाकाराकारिता चित्तवृत्तिरपि बाधिता भवति ।
तत्र प्रतिबिम्बते चैतन्यमपि । यथा दीपप्रभादित्यप्रभावभासनासर्मथा सती तथाभिभूता
भवति । तथा स्वप्रकाशमानप्रत्यगभिन्नपरब्रह्मावभासनानर्हतया तेनाभिभूतं सत्
स्वोपाधिभूताखण्डचित्तवृते र्बाधितत्वाद् दर्पणाभावे मुखप्रतिबिम्बस्य मुखमात्रवत्
प्रत्यगभिन्नपरब्रह्ममात्रं भवति (वे० सा० ५८) ।
-
अहिनि[यिनी - सर्पत्वक् । यथा - तद् यथा अहिनिर्ल्डयिनी बल्मीके मृता
प्रत्यस्ता शयीतैवमेवेदं शरीरं शेते (ब्र० सू० १।१।४ शा० भा०) । यथा च -
अहिनिर्ल्डयिनी सर्पत्वक् यथा सर्पः परित्यक्तं स्वकञ्चुकं पश्यन्नपि पूर्ववदात्मत्वेन
नाभिमन्यते । तदेदं शरीरं कदाचित्पश्यन्नपि नात्मतया जानामीत्यर्थ: (सं० शा०
४/५५ अ० टी० तथा सु० टी०) ।
अहिंसा
यथा च - अहिंसा प्राणिनां पीडानिवृत्तिः (त० म० सू०) ।
-
-
यथा अहिंसा अपीडा प्राणिनाम् (गी० १०/५ शा० भा० ) ।