This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
१०३
 
चैतौ मन्त्रावनाधेयातिशयतां नित्यशुद्धतां च ब्रह्मणो दर्शयतः (ब्र० सू० १।१।४
शा० भा० ) । यथा च अस्नाविरम् अविगलितम्, अविनाशीति यावत् (त० भाम०) ।
 
-
 
अस्पर्शयोगः – योगविशेषः । यथा - अस्पर्शयोगो वै नाम दुर्दर्शः सर्वयोगिभिः ।
योगिनो विभ्यति ह्यस्मादमये भयदर्शिनः (मा० उप० का० ३।३९) । योगविशेषाख्यः ।
यद्यपि इदमित्थं परमार्थतत्त्वम् अस्पर्शयोगो नामायं सर्वसम्बन्धाख्यस्पर्शविवर्जित-
त्वादस्पर्शयोगो नाम वै स्मर्यते प्रसिद्धमुपनिषत्सु (मा० उप० गौ० व्या० का० ३।३९
शा० भा०) । यथा च - तत्र वर्णाश्रमादिधर्मेण पापादिमलेन च स्पर्शो न भवत्यस्मादित्य-
द्वैतानुभवोऽस्पर्शः । स एव भोगो जीवस्य ब्रह्मभावेन योजनात् (तत्रैव आ०गि०टी०) ।
पातञ्जलसम्मतनिर्विकल्यसमाधिकल्पः बौद्धदर्शनसम्मतविपश्यनायोगसदृशो वा । केचिद्
वदन्ति निरस्तसमस्तभेदाद्वयतत्त्वदर्शनमिति ।
 
-
 
अस्मिता - अहमित्यभिमानः । अहमस्मि इति अस्मि तस्य भावः अस्मिता ।
यथा - सत्त्वपुरुषयोरहमस्मीत्येकताभिमानः अस्मिता । तदप्युक्तम्- दृग्दर्शन-
शक्त्योरेकात्मत्वाभिमानोऽस्मिता इति (सर्व० स० पातञ्जले) । यथा च - अहमस्मि
मद्विशिष्टः कोऽपि नास्ति इत्यभिमानातिशयोऽस्मिता (पा० यो० सू० ५व्या० भा० ) ।
 
अस्पर्शविहारः - बौद्धदर्शने योगविशेषः । स्पर्शः सुखं तेन सहितो विहारः
स्पर्शविहारः न स्पर्शविहारोऽस्पर्शविहारः (त्रिंशिकायाम्) । यथा च - मात्रास्पर्शास्तु
कौन्तेय शीतोष्णसुखदुःखदा: (गी० २।१४) ।
 
-
 
अहम् - आत्मा । यथा - अहमर्थः आत्मैव । तस्य कथमविद्यातः सृष्टिः । न
च सुषुप्तौ स्वयंप्रकाशस्यात्मनः सम्भवेऽप्येवंविधस्याहमर्थस्याभावः। यदि च सुषुप्ता-
वहमर्थः प्रकाशेत तर्हि स्मर्येत ह्यस्तन इवाहङ्कारः (अ० सि०) ।
 
-
 
-
 
अहङ्कारः - १. अहमित्यभिमानः । यथा - अहंकारमहंकरणमहंकारो विद्यमानैर-
विद्यमानैश्च गुणैरात्मन्यध्यारोपितैर्विशिष्टमात्मानमहमिति मन्यते सोऽहंकारोऽविद्याख्यः
कष्टतमः सर्वदोषाणां मूलं सर्वानर्थप्रवृत्तीनाञ्च (गी० १६।१८ शा० भा०) । यथा
च–अध्यारोपितवैशिष्ट्यविषयत्वादहंकारस्याविद्यामूलत्वेनाविद्यात्मत्वमाह - अविद्याख्य
इति । विवेकिभिस्तस्यातियलादेव हेयत्वं सूचयति- कष्टतम इति (त० आ० गि०
टी०) । यथा च - अहङ्कारो अहमेव सर्वश्रेष्ठ इति बुद्धिः (त० नी० क०) । यथा
च – अहमभिमानरूपो योऽहङ्कारः स सर्वसाधारणः सर्वैरारोपितैर्गुणैरात्मनो महत्त्वाभि-
मानमहङ्कारम् (त० म० सू०) । यथा च आत्मनो विशिष्टाभिमानमविद्याख्यं
 
-