2023-03-12 05:00:32 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
-
अस्तिकायः - जैनदर्शने प्रसिद्धः एकः पदार्थः । स च पञ्चविधः - जीवाकाश-
धर्माधर्मपुद्गलास्तिकायमेतत् । अत्र जीवादीनां पुद्गलान्तानां पञ्चानां द्वन्द्वः । ततश्चास्ति-
कायशब्देन कर्मधारयसमासः । एवं च जीवादीनां पञ्चानाम् अस्तिकाय इति संज्ञा
बोध्या । एतेषु पञ्चसु तत्त्वेषु कालत्रयसम्बन्धितया अस्तीति स्थितिव्यपदेशः ।
अनेकप्रदेशत्वेन शरीरवत् कायव्यपदेशः (सर्व० सं० आर्हते) ।
१०२
अस्तिता
अस्तीत्येवंरूपभावप्रत्ययविषयता । यथा- अस्त्याकाशादिरिति
व्यवहारादाकाशादावस्तिता । व्यावहारिकसत्तालक्षणास्ति । प्रत्यङ्मात्रे तु पारमार्थिक-
सत्तारूपा (सं० शा० १।१८ सु० टी०) । यथा च - अस्तिता सद्बुद्धिवेद्यता
भावप्रत्ययगोचरतेति यावत् । प्रत्यगात्मनि सा सर्वास्पदतया नित्यसिद्धा सूक्ष्मत्व-
व्यापकत्वाद्वितीयत्वानामप्युपलक्षणमेतत् (त० अ० टी०) । सत्तारूपोऽर्थः । अस्तीति
क्रियाप्रतिरूपकमव्ययम् । ततो भावार्थे तल्प्रत्यये अस्तितेति ।
-
अस्ति ब्रह्म - यथां - अस्ति ब्रह्मेति च लकारो न ब्रह्मसत्तां प्रति ब्रह्मणः
कर्तृत्वमाह । नित्यत्वेन तदसम्भवात् किन्तु साधुत्वार्थमिति द्रष्टव्यम् (अ० सि० ज०
हेतू०) । यथा च - अस्त्यादावपि कर्त्रीशे भाव्येऽस्त्येव हि भावनेति चेत् । आस्तामेवम्,
सत्तारूपक्रियायाः कर्तृत्वानन्वये प्रकृतार्थे हानिस्तु नैवास्ति सिद्धा उक्तसत्ता ब्रह्माश्रितेति
बोधः । किं च प्राचीनसिद्धान्ते नोक्तरूपा सत्ता किन्तु शुद्धचिदेव । यथा हि एकस्य
एव चितः कल्पितभेदेनांशत्रयं सत्तास्फुरणमानन्दश्च । तदुक्तं वृद्धैः - अस्ति भाति
प्रियं रूपं नाम चेत्यंशपञ्चकम् । आद्यं त्रयं ब्रह्मरूपं जगद्रूपं ततो द्वयमिति । तत्र
सत्तांशस्य व्यवहारे असत्त्वापादकज्ञानं प्रतिबन्धकम् । स्फुरणांशस्याभानापादकमज्ञानम् ।
आनन्दस्य अनानन्दापादकमज्ञानम् । सत्तांश एव ज्ञानांशः तस्य त्रितयस्याखण्डस्यैव
अस्तिस्फुरत्यानन्दतिवाच्यत्वेन घटोऽस्तीत्यादौ शुद्धचिप्रकारको बोधः । घटं जानामीत्यादौ
च ज्ञाने घटादेर्नावान्तरबोधः । निर्धर्मितावच्छेदकबोधासम्भवात् । किन्तु विशेष्ये
विशेषणं तत्रापि विशेषणान्तरमिति न्यायेन घटज्ञानप्रकारकधीः । घटस्य ज्ञानमित्यादौ
तु ज्ञानपदं षष्ठ्या ज्ञानीयविषयितालक्षकत्वे तात्पर्यग्राहकम्, ज्ञानांशबोधकम्,
निर्धर्मितावच्छेदकबोधसम्भवात् (त० गौ० ब्र०) ।
अस्नाविरम् - अविनाशि । यथा - एको देवः सर्वभूतेषु गूढः सर्वव्यापी
सर्वभूतान्तरात्मा । कर्माध्यक्षः सर्वभूताधिवासः साक्षी चेता केवलो निर्गुणश्च (श्वेता०
६।११)। स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं शुद्धमपापविद्धम् (ई० उ० ८) इति