This page has not been fully proofread.

शावेदान्तकोशः
 
तामसम्भूतिमव्याकृताख्यां कारणमविद्यां कामकर्मबीजभूतामदर्शनात्मिकामुपासते
( ई० उ० १२ शा० भा० ) ।
 
१०१
 
-
 
असम्मोहः - विवेकपूर्विका प्रवृत्तिः । यथा - असम्मोहः प्रत्युत्पन्नेषु
बोधव्येषु द्रष्टव्येषु च विवेकपूर्विका प्रवृत्तिः (गी० १०४ शा० भा०) । यथा
च - असम्मोहः प्रत्युत्पन्नेषु बोधव्येषु कर्तव्येषु चाव्याकुलतया विवेकेन प्रवृत्तिः
(त० म० सू० ) ।
 
असंसर्गाग्रहः - १. बाधकग्रहः प्रतिबन्धकग्रहो वा असंसर्गः । तस्याभावः ।
यथा प्रभाकरमते कार्यतावाचकलिङादिपदासमभिहारस्थले व्यवहारस्तु असंसर्गा-
ग्रहादेवेत्यत्र (भ० प्र० ४) । २. भेदाज्ञानम् । यथा सांख्यमते बुद्धिपुरुषयोरसंसर्गा-
ग्रहात् कर्तृत्वाद्यभिमान इत्यत्र (दि० १ आत्म०) । केचितु संसर्गस्य सम्बन्धस्याग्रहः
अबोधः । यथा मीमांसकमते इदं रजतमित्यादौ इदमिति रजतमिति च । ज्ञानद्वयस्यापि
प्रवृत्तिजनकताप्रयोजकत्वेन परस्परसम्वन्धाभावस्याबोधः इत्याहुः (वाच०) ।
 
असाधारणधर्मः - लक्ष्यतावच्छेदकसमनियतो धर्मः । यथा गोर्लक्षणं हि
सास्नादिमत्त्वम् । स एवासाधारणधर्म इत्युच्यते (त० सं० १ दी०) । अत्र धर्मे
असाधारणत्वं च तदितरावृत्तित्वे सति सकलतवृत्तित्वम् (त० प्र० १) । अथवा
लक्ष्यतावच्छेदकसमनियतत्वम् (त० सं० १ दी०) । लक्ष्यतावच्छेदकव्यापकत्वे सति
लक्ष्यतावच्छेदकव्याप्यत्वमित्यर्थः (तत्रैव नील०) । भवति हि सास्नादिमत्त्वं
लक्ष्यतावच्छेदकीभूतगोत्वस्य व्यापकत्वं व्याप्यत्वं चेति । स चासाधारधर्मो द्विविधः ।
व्यावर्तकः अव्यावर्तकश्च । आद्यो गोः सास्नादिमत्त्वम् । द्वितीयः सप्तपदार्थातिरिक्त-
पदार्थाप्रसिद्ध्या तद्भेदासम्भवेनाभिधेयत्वस्य व्यावर्तकत्वं न सम्भवतीति ।
 
-
 
असुरः तमोगुणात्मिका इन्द्रियवृत्तिः । यथा- देवा दीव्यतेर्थोतनार्थस्य
शास्त्रोद्भासिता इन्द्रियवृत्तयः । असुरास्तविपरीताः स्वेष्वेवासुषु विष्वग् विषयासु
प्राणनक्रियासु रमणात् स्वाभाविक्यस्तम आत्मिका इन्द्रियवृत्तय एव (छा० उप०
१।२।१ शा० भा० ) ।
 
-
 
असूर्यः – असुरभावमापन्नानां देवानां लोकः । यथा - असूर्याः परमात्मभावम-
द्वयमपेक्ष्य देवादयोऽपि असुरास्तेषां च स्वभूता लोका असूर्या नाम । नाम
शब्दोऽनर्थको निपातः । ते लोकाः कर्मफलानि लोक्यन्ते दृश्यन्ते भुज्यन्त इति
जन्मानि (ई० उप० ३ शा० भा०) ।