This page has been fully proofread once and needs a second look.

१००
 
शाङ्कुरवेदान्तकोशः
 
चेत्, अहो वतायमतिनिर्वृत्तः प्रत्ययतपस्वी यस्यासत्यपि निरूपणमायतते । न च

प्रत्ययस्तत्राधत्ते किञ्चित् असतः अधारत्वायोगात् । असदन्तरेण प्रत्ययो न प्रथत इति

प्रत्ययस्यैवैष स्वभावो न त्वसदधीनमस्य किञ्चिदिति चेत् । अहो वतास्यासत्पक्षपातो

यदयमतदुत्पत्तिरतदात्मा च तदविनाभावनियतः प्रत्यय इति । तस्मादत्यन्तासन्तः

शरीरेन्द्रियादयो निस्तत्त्वा नानुभवविषया भवितुमर्हन्ति इति ( ब्र० सू० १/१/१

उपो० शा० भा० भाम०) । यथा च - न च इदमत्यन्तमसन्निरस्तसमस्तस्वरूपमलीकमे-

वास्त्विति साम्प्रतम् । तस्यानुभवगोचरत्वानुपपत्तेरित्युक्तमधस्तात् (तत्रैव भाम० ) ।

यथा च – भवत्वेनं विभ्रमसमुद्भवः । विभ्रमालम्बनं तु किमसत् सदेव वा किं वोभयात्मकम्

उतोभयविलक्षणमिति विवेचनीयम् । न तावदसत् । असतोऽपरीक्षावभासानर्हत्वात् ।

तदादित्सया प्रवृत्यनुपपत्तेश्च । क्वचिदसद्विशेषेऽपि प्रतिभासप्रवृत्ती किं न स्यातामिति

चेत् न विशेषाधिकरणत्वे तुच्छत्वानुपपत्तेस्तस्य निःस्वभावत्वात् । सद्वैलक्षण्य-

मात्रेणासत्त्वाभिक्षाने मायावादिमतप्रवेशात् (त० प्र० अ० ख्याति०) । यथा च - तस्माद-

निर्वचीयख्यातिरेव । प्रमाणसम्भवात् । न त्वसदन्यथाख्याति प्रमाणविरहात् । न

चासद्भाने असदेव रजतमभवादिति प्रत्यक्षं मानम् । अनन्तरोक्तबाधकेन

सवैलक्षण्यविषयकत्वात् । न चेदं प्रत्यक्षमपि त्वया हि असदात्मनः प्रत्यक्षत्वमङ्गीक्रियते

(अ०सि०अ० ख्या० भ० ) ।
 

 
असमवायिकारणम् - , असमवायिकारण
समवाय्यसवायिनिमित्तरूपत्रिविधकारणेष्वन्यतमम् । कार्येण

कारणेन वा सहैकस्मिन्नर्थे समवेतत्वें सति कारणमसमवायिकारणम् । यथा

तन्तुसंयोगः पटस्य । तन्तुरूपं पटगतरूपस्य (त० सं० १ ) ।
 

 
असम्प्रज्ञातः
 
, असम्प्रज्ञात
१. न यथार्थज्ञानविषयः । २. ज्ञेयज्ञानज्ञातृभेदशून्यो

निर्विकल्पकरूपः समाधिभेदः एकः । स च सर्ववृत्तिनिरोधरूपः ।
 
-
 
---
 

 
असम्भवः - , असम्भव
१. लक्षणदोषः यथा लक्ष्यमात्रावर्तनमसम्भवः । यथा गोरेकशफ-

त्वम् (त० सं० १ दी०) । यथा च - लक्ष्यतावच्छेदकव्यापकीभूतो योऽभावस्तत्-

प्रतियोगित्वम् (त० सं० न्या० बो०) । यत्र यत्र लक्ष्यतावच्छेदकं गोत्वम् तत्र तत्रैक-

शफत्वस्याभावः इति व्याप्तेरेकशफत्वाभावो लक्ष्यतावच्छेदकस्य व्यापको भवतीति

तत्प्रतियोगित्वमेकशफत्वे वर्तत इति बोध्यम् । २. स्वरूपासिद्धिः । यथा गोरेकशफत्वस्य

लक्षणत्वे स्वरूपासिद्धात्मको हेत्वाभासः ३. यस्य सम्भावना नास्ति स असम्भव इति

लोके । यथा असम्भवं हेममृगस्य जन्म ।
 
-
 
--
 

 
असम्भूतिः, असम्भूति
अव्याकृता प्रकृतिः । यथा - सम्भवनं सम्भूतिः सा यस्य कार्यस्य

सा सम्भूतिस्तस्या अन्या असम्भूतिः प्रकृतिः कारणम् अविद्या अव्याकृताख्या