2023-03-21 04:04:04 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
-
उ० ३।९।१ इति असवा इदमग्र आसीत् - तै० उ० २।७।१ इति च तस्मादसद्-
व्यपदेशान्न प्रागुत्पत्तेः कार्यस्य सत्त्वमिति चेत् नेति ब्रूमः । न ह्यत्यन्तासत्त्वाभिप्रायेण
प्रागुत्पत्तेः कार्यस्यासद्व्यपदेशः किं तर्हि व्याकृतनामरूपत्वाद् धर्माद् अव्याकृत-
नामरूपत्वं धर्मान्तरं तेन धर्मान्तरेणायमसद्व्यपदेशः प्रागुत्पत्तेः सत एव कार्यस्य
कारणरूपेणानन्यस्य (ब्र ० सू० २ । १ । १७ शा० भा०) । यथा च - नो सदासीदित्यनेन
सद्भिन्नत्वे उक्ते असत्त्वस्यापि प्रसक्तेः । न च तदानीमित्यस्य वैयर्थ्यम् । नासीद्
रजो न व्योमेति रजोनिषेधादावेव तदन्वयात् । नहि रजः प्रभृतीनां सदा अनस्तित्वम्
(अ० सि०श्रु० अनु०) । यथा च - स्वाभाविककर्मविज्ञाने मृत्युरित्युच्येते असदत्यन्ताधोभाव-
•
हेतुत्वात् (बृ० आ० उ० १ । ३ । २८ ) । यथा च - असत्त्वं निरूपाख्यत्वम् (ब्र०
सू० २।२।२२।२२ वे० क० त० ) । यत्कालसामान्यासम्बन्धि तत् । यथा
शशशृङ्गकूर्मरोमादि (माध्वाः) । ३. न अर्थक्रियाकारि अकिञ्चित्करमाभावादिकमिति
बौद्धाः I४. सत्तावद्भिन्नत्वम् । यथा सामान्यादिचतुष्टयम् तथा तत्कालीनस्वजनका-
भावप्रतियोगी । यथा घटपटादिकार्यम् । स्वोत्पत्तेः पूर्वमसत् (न्यायवैशेषिकाः) ।
असत्ख्यातिः
ख्यातिः पञ्चप्रकारा- आत्मख्यातिरसत्ख्यातिरख्यातिः
ख्यातिरन्यथा । परीक्षकाणां विभ्रान्तौ विवादात्सा विमृश्यते (वि०वि० १) । एतेष्वन्यतमैका
असत्ख्यातिः ।एषा माध्यमिकशून्यवादिबौद्धानाम् । अस्मिन् मते पदार्थानां व्यावहारिक-
सत्तां स्वीकृत्य तेषां परीक्षा क्रियते अन्ते च परीक्ष्य तेषामसत्त्वं साध्यते । अतोऽत्र
सविषयकं सर्वं सविषयकं ज्ञानमपि असन् मिथ्या । यथा स्वप्ने निद्रावस्थायां सर्वेऽर्थाः
प्रतिभासन्ते तेषां वाह्यं सत्त्वं नास्ति । अतो रज्जौ सर्प इति भ्रान्तिस्थले असत एव
भ्रान्तिरिति असत्ख्यातिरुच्यते । भ्रमस्थले असत एव ख्यातिः प्रसिद्धिः भ्रान्तिः । अत्र
प्रसिद्ध्यर्थकः ख्यातिशब्दः भ्रान्तिरित्यर्थे । प्रयुज्यते । यथा- न च विषयस्य
समस्तसामर्थ्यस्य विरहेऽपि ज्ञानमेव तत्तादृशं स्वप्रत्ययसामर्थ्यासादितादृष्टान्त-
सिद्धस्वभावभेदमुपजातमसतः प्रकाशनं तस्मादसप्रकाशनशक्तिरेवाविद्येति
साम्प्रतम् । यतो येयमसप्रकाशनशक्तिर्विज्ञानस्य किं पुनरस्याः शक्यम् असदिति चेत्
किं तत् कार्यमाहोस्विदस्या ज्ञाप्यम् । न तावत्कार्यम् असतस्तत्त्वानुपपत्तेः नापि ज्ञाप्यं
ज्ञानान्तरानुपलब्धेः अनवस्थापाताच्च । विज्ञानस्वरूपमेवासतः प्रकाश इति चेत् कः
पुनरेष सदसतोः सम्बन्धः । असदधीननिरूपणत्वं सतो ज्ञानस्य असता सम्बन्ध इति
-
-