2023-03-12 05:00:31 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
जगदुपादानं शुक्तिरिव समारोपितस्य रजतस्य मरीचय इव जलस्य एकश्चन्द्रमा इव
द्वितीयस्य चन्द्रमसः न त्वचेतनं प्रधानपरमाण्वादि । अशब्दं हि तत् (त० भाम० ) ।
९८
-
-
-
असक्तः - विषयेषु प्रीतित्यागः । यथा - असक्तिः सक्तिः संगनिमित्तेषु विषयेषु
प्रीतिमात्रं तदभावोऽसक्तिः (गी० १३/९ शा० भा० ) । यथा च - असक्तिरिति ।
सक्तिः पुत्रादौ ममतामात्रम् (त० नी० क०) । यथा च - सक्तिर्ममेदमित्येतावन्मात्रेण
प्रीतिः (त० म० सू०) । किं चासक्तिः संगनिमित्तेषु विषयेषु प्रीतिमात्रस्याभावः ।
(त० भाष्यो०) असक्तिः पुत्रादिपदार्थेषु प्रीतित्यागः (त० श्रीधरी) । यथा च -
असक्तम् यस्मात् सर्वकारणवर्जितं ज्ञेयं तस्मादसक्तं सर्वसंश्लेषवर्जितम् (गी०
१३१४ शा० भा०) । यथा च तथा परमार्थतोऽ सक्तं सर्वसम्बन्धशून्यमेव मायया
(त० म० सू०) यथा च - सर्वकारणवर्जितत्वादसक्तं सर्वसङ्गविनिर्मुक्तम् – असङ्गो
हीति श्रुतेः (त० भाष्यो०) असक्तं सङ्गशून्यम् (त० श्रीधर्याम्) ।
-
असत् - अनभिव्यक्तम्, कारणात्मना स्थितम् । यथा - कारणासम्बन्धेन
नामरूपाभ्यामनभिव्यक्तं कारणात्मना स्थितमसदित्युच्यते (गी० ९।१९ भाष्यो०) ।
यथा च - तपाम्यहमादित्यो भूत्वा कैश्चिद् रश्मिभिस्तपाम्यहं वर्षं कैश्चिद्
रश्मिभिरुत्सृजाम्युत्सृज्य पुनर्निर्गृह्णामि कैश्चिद्रश्मिभिरष्टमासैः पुनरुत्सृजामि
प्रावृष्यमृतं चैव देवानां मृत्युश्च मर्त्यानां सद् यस्य यत्सम्बन्धितया विद्यमानं
तविपरीतमसच्चैवाहमर्जुन न पुनरत्यन्तमेवासद् भगवान् स्वयं कार्यकारणे वा सदसती
ये पूर्वोक्तैर्विवृतिप्रकारैकत्वपृथक्त्वादिविज्ञानैर्यज्ञैर्मां पूजयन्त उपासते ज्ञानविदस्ते
यथाविज्ञानं मामेव प्राप्नुवन्ति (त० शां० भा०) । यथा च - हे अनन्त देवेश हे
जगन्निवास त्वमक्षरं तत्परं यद्वेदान्तवाक्येषु श्रूयते किं तत् सदसद् यद् विद्यमानं
सच यत्र नास्तीति बुद्धिस्ते उपधानभूते सदसती यस्याक्षरस्य यद्वारेण सदसदित्युप-
चर्यते । परमार्थवस्तु सदसतः परं तद् यदक्षरं वेदविदो वदन्ति तत्त्वमेव
नान्यदित्यभिप्रायः (गी० ११ ।३७ शां० भा०) । यथा च - किञ्च सद् विधिमुखेन
प्रतीयमानमस्तीति अस्मिन् निषेधमुखेन प्रतीयमानं नास्तीति अथवा सत् व्यक्तं असत्
अव्यक्तं त्वमेव (त० म० सू०) । यथा च - असच्च यन्नास्तीति बुद्धिः निषेधमुखेन
प्रतीयमाना अव्यक्तविषया कारणबुद्धिरिति यावत् (त० भाष्यो०) । यथा च किञ्च
सत् व्यक्तं असद् अव्यक्तं च ताभ्यां परं मूलकारणं यदक्षरं ब्रह्म तच्च त्वमेव
(त० श्रीधरी) 1 यथा च - तथासतः प्रागभावप्रतियोगिनो घटादेः सत्त्वं कारणव्यापारात्
सतोऽपि तस्याभावः कारणनाशाद् भवत्येवेति कथमुक्तम्- नासतो विद्यते भावो