2023-03-12 05:00:31 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
९७
सम्भवतीत्यर्थः (त० २।२१ भाष्यो०)। २. न व्येति लिङ्गसङ्ख्यादीन् इति अव्ययः
च वा ह एवमित्यादीति वैयाकरणाः । ३. न व्ययः धनापचय इत्यव्ययः व्ययरहित
इति लोकव्यवहारे ।
अव्ययात्मा
परिपूर्णज्ञानशक्तिस्वभावः ईश्वरः ।
यथा- अजोऽपि
जन्मरहितोऽपि संस्तथाऽव्ययात्माऽक्षीणज्ञानशक्तिस्वभावोऽपि संस्तथाभूतानां
ब्रह्मादिस्तम्बपर्यन्तानामीश्वरः ईशनशीलोऽपि सन् (गी० ४।६ शां० भा० ) ।
अव्यबसायः- अविवेकबुद्धिः । यथा - अव्यवसायात्मिका बुद्धिरेकेह कुरुनन्दन
(गी० २।४१) व्यवसायात्मिका निश्चयस्वभावा एका एव बुद्धिः । इतरविपरीत-
बुद्धिशाखाभेदस्य बाधिका... (शा० भा०) । इहेश्वराराधनलक्षणे कर्मयोगे व्यवसायात्मिका
परमेश्वरभक्यैव तरिष्यामीति निश्चयात्मिकैवैकनिष्ठा बुद्धिर्भवति । अव्यवसायिनाम्
अनन्ता (श्रीधरी) ।
✰✰✰✰✰✰✰✰✰
1
-
-
-
अव्यवसायिनाम् - विवेकबुद्धिरहितानाम् । यथा - ता बुद्धयो बहुशाखा बह्व्यः
यासां ता शाखा बहुशाखा बहुभेदा इत्येतत् प्रतिशाखाभेदेन ह्यनन्ताश्च बुद्धयः केषाम्
अव्यवसायिनां प्रमाणजनितविवेकबुद्धिरहितानामित्यर्थ: (गी० २।४१ शां० भा०) ।
यथा च - अव्यवसायिनामज्ञानिनां बुद्धयो अनन्ताश्च प्रत्येकं बहुशाखा इति (त०
२।४१ नी० क०) । यथा च - अव्यवसायिनां तत्फलकामानां बुद्धीनामानन्त्य -
प्रसिद्धियोतनार्थो हि शब्दः (मी० २।४१ म० सू०) ।
-
अव्याकृतम् - नामरूपव्याकृतिरहितम् । यथा - तत्त्वान्यत्वाभ्यामनिर्वचनीये
नामरूपे अव्याकृते व्याचीकिर्षिते इति ब्रूमः । अपाणिपादो जवनो ग्रहीता
पश्यत्यचक्षुः स शृणोत्यकर्णः स वेत्ति वेद्यं न च तस्यास्ति वेत्ता तमाहुरग्र्यं
पुरुषं महान्तम् (श्वे० उ० ३।१९) इति च । (ब्र० सू० १/१/५ शां० भा० ) ।
-
.....
अब्रणम् १. नित्यशुद्धम् । यथा - स पर्यगाच्छुक्रमकायमव्रणमस्नाविरं
शुद्धमपापविद्धम् (ई० उ० ८) इति चेतौ मन्त्रावनाधेयातिशयां नित्यशुद्धतां
च ब्रह्मणो दर्शयतः (ब्र० सू० १/१/४ शां० भा०) ।२. दुःखरहितम् । यथा - अव्रणं
दुःखरहितम् (त० शां० भा० ) ।
-
-
-
अशब्दम् - शब्दप्रमाणरहितं श्रौतसिद्धान्तविपरीतमिति यावत् । यथा - न
सांख्यपरिकल्पितमचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तेष्वाश्रयितुम् । अशब्दं हि
तत् (ब्र० सू० १/१/५ शा० भा०) । यथा च - ब्रह्मैवेक्षित्रनाद्यनिर्वाच्याविद्यासचिवं