This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
-
 
यथा - अव्यक्तादीन्यव्यक्तमदर्शनमनुपलब्धिरादिर्येषां भूतानां पुत्रमित्रादिकार्यकारण-

संघात्मकानां तान्यव्यक्तादीनि भूतानि प्रागुत्पत्तेः उत्पन्नानि च प्राङ्मरणाद् व्यक्त-

मध्यान्यव्यक्तनिधनान्येव पुनरव्यक्तमदर्शनं मरणं येषां तान्यव्यक्तनिधनानि

मरणादूर्ध्वमव्यक्ततामेव प्रतिपद्यन्त इत्यर्थः (गी० २२ । २८ शा० भा० ) । यथा च -

आदौ जन्मनः प्राक् अव्यक्तान्यनुपलब्धानि पृथिव्यादिभूतमयानि शरीराणि मध्ये

जन्मानन्तरं मरणात् प्राक् व्यक्तान्युपलब्धानि सन्ति । निधने पुनरव्यक्तान्येव भवन्ति ।

यथा स्वप्नेन्द्रजालादौ प्रातिभासिकमात्रजीवनानि शुक्तिरुप्यादिवन्न तु ज्ञानात् प्राग्र्ध्वं

वा स्थितानि दृष्टिसृष्ट्यूभ्युपगमात् (त० म० सू०) । यथा च - अव्यक्तं सोपाधि-

शून्यत्वेनास्पष्टमपि वासुदेवशरीरेण व्यक्तमापन्नम् अस्मदादिवच्छरीराभिमानिनं माम्

अबुद्धयो मन्यन्ते (त० ७।२४ नी० क०) । यथा च - अव्यक्तं देहग्रहणात् प्राक्

कार्याक्षमत्वेन स्थितमिदानीं वसुदेवगृहे व्यक्तिं भौतिकदेहावच्छेदे कार्यक्षमताप्राप्तं

किञ्चिज्जीवमेव मन्यन्ते मामीश्वरमप्यबुद्धयो विवेकशून्या अव्यक्तं सर्वकारणमपि मां

व्यक्ति कार्यरूपतां मत्स्यकूर्माद्यनेकावताररूपेण प्राप्तमिति वा (त० ७२४ म०सू० ) ।

यथा च - अव्यक्तं प्रपञ्चातीतं मां व्यक्तिं मनुष्यमत्स्यकूर्मादिभावं प्राप्तमल्प-

बुद्धयो मन्यन्ते (त० २७।२४ श्रीधरी) । यथा च - अव्यक्ताद् व्यक्तं प्रजापतेः

स्वापावस्था तस्मादव्यक्ताद् व्यक्तयो व्यज्यन्त इति (त० ८ १८ शा० भा०) । यथा

च- यद्धि लोके कस्णगोचरं तद् व्यक्तमुच्यते । अञ्जेर्धातोस्तत्कर्मत्वादिदं

त्वक्षरं तद् विपरीतं शिष्टैश्चोच्यमानैर्विशेषणैर्विशिष्टं तद् ये चाप्युपासते । (त० १२/१

शां० भा०) । ३. अविद्या । यथा - अविद्यामिका हि बीजशक्तिरव्यक्तशब्दनिर्देश्या

(ब्र० सू० १/४ । ३ शां० भा०) ।
 
-
 
-
 

 
अव्ययः - , अव्यय
१. नाशरहितो नित्यो वा । यथा - यावत् संसारभावित्वात् ।

न. ह्यबीजं किञ्चित्प्ररोहति । प्ररोहदर्शनाद् बीजसंन्ततेर्नित्यत्वमिति गम्यते । अव्ययम-

विनाशि न तु ब्रीह्यादिबीजवद् विनश्वरमिति वा (त० ९।१९ भाष्यो०) । यथा च -

किं च त्वमव्ययो न च तव व्ययो विद्यत इत्यव्ययः (त० ११/१८ शां० भा० ) ।

यथा च - किं च त्वमव्ययः विनाशरहितः (त० ११।१८ म० सू०) । यथा च-

अजमव्ययं जन्मविनाशशून्यं जायमानस्य विनश्यतश्च सर्वव्यापकत्वसत्यत्वयोरयोगात् ।

(त० २।२१ म० सू०) यथा च - अव्ययं क्षयरहितं तत्र हेतुरजं जन्मरहितत्वात्

सर्वविकारशून्यत्वम् । तथा च न विद्यते व्ययोऽवयवापचयो वा यस्य तमव्ययम्

अवयवापचयेन गुणापचयेन वा विनाशदर्शनात् तदुभयरहितस्य न विनाशः
 
-
 
-