This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
ते यथा तत्र विवेकं न लभन्तेऽमुस्याहं वृक्षस्य रसोऽस्म्यमुष्याहं वृक्षस्य रसोऽस्मीति
एवमेव सर्वा प्रजाः सति सम्पद्य न विदुः सति सम्पद्यामहे इति । .....अत्र हि वाक्ये
भेदेन सतां सोपकरणजीवानां पृथगवृत्तितालक्षणमविभागं स्वस्मिन् सम्मिश्रणमात्र-
दृष्टान्तेन प्रतीयते । ते यथा तत्र विवेकं न लभन्त इति च स्फुटमेवमत्र अविवेकमात्र -
रूपमैक्यं प्रतीयत इति (तत्रैवं विज्ञानामृतभाष्ये) ।
 
अविवेकः
 
विवेकाभावः । यथा - अन्योन्यतादात्म्यारोपरूपं मिथ्याज्ञानम् ।
शुक्तौ रजतं रज्जौ सर्प इति ज्ञानम् (सा० का० ११ व्या०) । यथा च - अविवेकि
व्यक्तं न विवेकोऽस्यास्तीति इदं व्यक्तमिमे गुणा इति न विवेकं कर्तुं याति अयं
गौरयमश्व इति यथा ये गुणास्तद्व्यक्तं यद् व्यक्तं ते गुणा इति (तत्रैव गौडपादभाष्ये) ।
 
१५
 
-
 
-
 
=
 
अविवेकि – न विवेकि अविवेकि = व्यक्तम् तथा प्रधानम् (सांख्ये) व्यक्तं
चराचरं जगत्, प्रधानमव्यक्तम् । यथा - अविवेकि व्यक्तं न विवेकोऽस्यास्तीति ।
इदं व्यक्तमिमे गुणा इति न विवेकं कर्तुं याति अयं गौरयमश्व इति यथा । ये
गुणास्तद् व्यक्तं यद् व्यक्तं ते च गुणाः । .... अन्ये गुणा अन्यत् प्रधानमेवं
विवेक्तुं न याति तद् अविवेकि प्रधानम् (त्रिगुणमविवेकि इत्यादि सां का० ११
गौ० पा० भाष्ये) ।
 
-
 
अवृत्तिकम् - परिणामरहितम् । यथा- सर्वविषयपरिणामरहितम् (ब्र० सू०
१ । १ ।५ क० त० प०) । यथा च तदन्तःकरणं वृत्तिभेदेन परिणामभेदेन द्विधा
द्विप्रकारं भवति (प० द० १।२० रा० कृ० टी०) ।
 
सम
 
अव्यक्तः
 
L
 
-
 
-
 
इन्द्रियविषयाभावाद् अभिव्यक्तिरहितः अयमामा । यथा -
अव्यक्तः सर्वकरणाविषयत्वान्न व्यज्यते इति अव्यक्तोऽयमात्मा (गी० २/२५
शां० भा० ) । यथा च - अन्यो विलक्षणः स चाव्यक्तोऽ निन्द्रियगोचरः (त० ८/२०
शां० भा०) । यथा च - योऽसावव्यक्तोऽक्षर इत्युक्तस्तमेवाक्षरसंज्ञकमव्यक्तं भावमाहुः
परमां प्रकृष्टां गतिम् (त०८/२१ शा० भा०) । यथा च - तस्मादव्यक्ताद्
भूतग्रामबीजादविद्यालक्षणादमृतात् अन्योऽत्यन्तविलक्षणो भावः सत्ता (त० ८/२०
नी० क०) । यथा च अव्यक्तात् हिरण्यगर्भादिति वा (त० ८।२० भाष्यो०) । यथा
च- अव्यक्तो न व्यज्यत इति दृश्यत्वं निरस्तम् (त० ८।२१ नी० क० ) । यथा
च- यो भावः अव्यक्तोऽतीन्द्रियोऽक्षरः (त० ८।२१ श्रीधरी) ।
 
अव्यक्तम् - १. प्रधानम् प्रकृतिर्वा । यथा व्यक्ताव्यक्तज्ञविज्ञानात् (सां०
का० २, अव्यक्तम् - प्रधानम् गौ० पा० भा०) । २ - अदर्शनमनुपलब्धिर्वा ।