This page has been fully proofread once and needs a second look.

९४
 
शाङ्करवेदान्तकोशः
 
-
 
-
 
-
 
वे० क० त०) इत्यद्वैतिनः । २. भेदाभेदवादिनो नैम्बार्का अपि एवमेवार्थं स्वीकुर्वन्ति ।

यथा – भूतसूक्ष्मसम्पत्तिः किं वागादेर्मन आदाविव संयोगरूपा उत समुद्रे नद्यादिसम्पत्तिवत्

तादात्म्यरूपेति ......वागादेर्मन आधुपादानकत्वाभावात् संयोगरूपा सम्पत्तिरिष्टा ।

सर्वकारणे ब्रह्मणि तु तेषामविभागः । तादात्यापत्तिरूपा सम्पत्तिरित्यर्थः । (श्रीनिवास -

प्रणीते वेदान्तकौस्तुभे) ३. विशिष्टाद्वैतिनां श्रीरामानुजीयानां मते- अपृथग्भावः।

यथा - परमात्मनि सम्पत्तिः किं प्राकृतलयवत्कारणापत्तिरूपा उत वाङ्मनसि

(छा० उ० ६।८।६) इत्यादिवत् अविभागरूपा इति चिन्तायां परमात्मनः सर्वेषां

योनिभूतत्वात् कारणापत्तिरूपा सिद्धान्त इति प्राप्ते उच्यते अविभाग इति पृथग्

व्यवहारानर्ह इत्यर्थः (तत्रैव श्रीभाष्ये) । ३. तादाम्यापत्तिः अवियोगः । श्रीवल्लभाचार्यैः

अविभाग इत्यस्य तादात्यापत्तिरूपोऽर्थो लिखितः । किन्तु श्रीधराचार्याः तादात्यापत्तिरिति

महाप्रभुवचनस्य तात्पर्यमवियोग इति कृतम् । यथा - ब्रह्मणि तु तेषामविभागः ।

तादात्यापत्तिरूपा सम्पत्तिरित्यर्थः (तत्रैव अणुभाष्ये) । ननु लीलाया नित्यत्वेन

तन्मध्यपतितानां तद्दर्शने यथा नित्यं तथा तादृक् साधनाभावेऽपि ....तदा कञ्चित्कालं

स्थापयित्वा वियोजयति न वेति संशयः ......वियोजयति इति पूर्वपक्षः । तत्र

सिद्धान्तमाह – तत्र प्रवेशितस्य तस्माद् अविभाग एव । तस्माद् लीलास्थानादित्यर्थः

(तत्रैव श्री श्रीधरकृतायां बालबोधिन्याम्) । ४. अधीनः । श्रीमन्माध्वास्तु अधीन इत्यर्थं

मन्यन्ते । एतन्मते अविभागोऽवचनात् (४।२।१६) इति सूत्रस्वरूपं न किन्तु

अविभागाद् वचनात् । यथा - ॐ अविभागाद् वचनात् ॐ ननु मुक्तानां स्यात् तथा


हरे: सर्वोत्तमत्वं न स्यादित्याशक्य निरस्यति मुक्तानां सत्यसंकल्पस्य

ईश्वरसंकल्पाद् अविभागः परमेश्वराकल्पाद् अविभागेन अधीनत्वेनेह सत्यसङ्कल्प-

त्वादिकं तेषामिति न स्वातन्त्र्यम् । (श्री वनमालिकृतायां ब्रह्मसूत्रसिद्धान्तमुक्तावल्याम् ।

५. स्वरूप्यैक्यम् । शक्त्यद्वैतवादिश्रीश्रीकरमते अविभाग इत्यस्य स्वारूप्यैक्य-

मित्यर्थोऽभिप्रेतः । यथा - अविभागिनः शिवज्ञानिनः सूक्ष्मशरीरस्य आत्यन्तिकनाशो

विधीयते । ....स्वारूप्यैक्ये अविभागो निर्दिश्यते (तत्रैव श्रीकरभाष्ये) ।६. पृथक्त्वेऽपि

अपृथक्त्वमिव भासनमविभागः । अनेकवृक्षेभ्यः मधुकरेण संगृहीतं मधु एकरसमिव

एकरूपमिव प्रतीयते । किन्तु वस्तुतस्तत्र अनेकरसाः अनेकानि रूपाणि मधुनि सन्ति ।

एवमेव परावस्थायां जीवानाम् अविभागो भवति । यथा - आकाशे वायोरिवाविभाग-

लक्षणानन्यत्वमेव सम्पत्तिः, न त्वेकत्वं भिन्नयोरखण्डतारूपैक्याभावात् । ... यथा सोम्य

मधु मधुकृतो निस्तिष्ठन्ति नानात्मनां वृक्षाणां रसान् समवहारमेतेषां रसे गमयन्ति
 
-
 
-
 
.
 
.....