This page has been fully proofread once and needs a second look.

3
 
शाङ्करवेदान्तकोशः
 
अविनाशी - , अविनाशिन्
अन्त्यभावविकाररहितं नित्यं ब्रह्म । यथा - अविनाशिनमन्त्यभाव-
-
 

विकाररहितं नित्यं विपरिणामरहितं यो वेदेति सम्बन्धः (गी० २।२१ शा० भा० ) ।
 
९३
 
-
 

यथा च तथा चं एनं नित्यमविनाशिनं सदैव नाशरहितं न त्वाकाशादिवद्

व्यवहारदशायां नाशरहितमत एवाजं जन्मरहितं नित्यम्, अविनाशिनो

जन्यत्वायोगात् । अत एवाव्ययं सदैकरसं यो वेदेत्यर्थः (तत्रैव भाष्यो०)। .

 
अविभक्तः, अविभक्त
पृथग्भावरहितः मुक्तः । यथा अविभक्तं एव परेणात्मना

मुक्तोऽवतिष्ठते ( ब्र० सू० ४।४।४ शा० भा० ) ।
 
अविभक्तः
 
-
 
-
 

 
अविभक्तम्, अविभक्त
सर्वव्यापकमाकाशवदेकं ब्रह्म । यथा - अविभक्तं च प्रतिदेहं

व्योमवदेकम् (गी० १३/१६ शा० भा० ) । यथा च एक एव च भूतात्मा भूते भूते

व्यवस्थितः। एकधा बहुधा चैव दृश्यते जलचन्द्रवदिति श्रुतेर्भूतेषु कार्यकारण -

संघातापन्नेषु जलपात्रेषु चन्द्रस्येव ब्रह्मणः प्रतिबिम्बा जीवास्ते चोक्तरीत्या बिम्बादन्यया

इति तद्रूपभूतेष्वविभक्तं च विभागमव्यक्तमपि ज्ञेयवस्तु मूढदृष्टया विभक्तमिव

दूरदेशस्थमिव चाद् विभिन्नमिव च स्थितम् (तत्रैव नी० क०) । यथा च - भूतेषु

सर्वप्राणिषु अविभक्तमभिन्नमेकमेव तत् न तु प्रतिदेहं भिन्नं व्योमवत् सर्वव्यापकत्वात्

(तत्रैव म० सू०) । यथा च - अविभक्तं विभागशून्यं प्रतिदेहं व्योमवदेकं तद्भेदे

मानाभावाद् भिन्नत्वे च घटवदनात्मत्वापातात् (तत्रैव भाष्यो०) । यथा च भूतेषु स्थावर-

जङ्गमात्मकेषु अविभक्तं कारणात्मना अभिन्नं कार्यात्मना विभक्तं च भिन्नमिवावस्थितं

च (तत्रैव श्रीधरी) ।
 
-
 

 
अविभागः, अविभाग
अविभागो वचनात् (ब्र० सू० ४।२।१६) इत्यत्र विभिन्नवेदान्तिभिः

स्वस्वसिद्धान्तानुसारमविभागशब्दस्य विभान्ना अर्थाः स्वीकृताः । १. परब्रह्मणि

जीवस्य तादात्म्यरूपा सम्पत्तिः अभेदो वा । यथा - अविद्यानिमित्तानां च कलानां

न विद्यानिमित्ते प्रलये सावशेषत्वोपपत्तिः । .....निमित्तापाये नैमित्तिकात्यन्तिकापायः ।

अविद्यानिमित्तश्च विभागो नाविद्यायां विद्यया. समूलघातमपाकृतायां सावशेषो

भवितुमर्हति । तथापि प्रविलयसामान्यात् सावशेषताशङ्कामतिमन्दामपनेतुमिदं

सूत्रम् (तत्रैव शा० भा० ) । ब्रह्मविदः पुरुषस्य षोडशकलाः एकादशेन्द्रियाणि

पञ्चसूक्ष्मभूतानि परस्मिन्नात्मनि ब्रह्मणि लीयन्ते । अयं कलाप्रलयो निरवशेषो भवति ।

यथा - यथा नद्यः समुद्रे लीयन्ते । एवमेव पुरुषे कलाः । आसां कलानां नामरूपे

शक्त्यात्मके भिद्येते । स च विद्वान् अकलः कलारहितः सन्नमृतो भवति (तत्रैव
 
-