This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
अनित्याशुचिदुःखात्मत्सु नित्यशुचिसुखात्मख्यातिरविद्या । इति । व्याससूत्रेऽपि
एतदविलक्षणाविद्यानुक्तेस्तस्यापीदं सर्वसम्मतमिति लक्ष्यते । वासनारूपाविद्या-
सहकारेण स्थूलाविद्यायास्तत्सहकारेण च सूक्ष्माविद्याया ब्रह्मजन्यत्वेन अनवस्था-
पत्त्यभावात् (तत्रैव) ।
 
९२
 
-
 
अविद्यानाशः । शाङ्कराद्वैतवादे भावरूपाया अविद्याया नाशः केवलं ज्ञानेनैव
जायते न तु कर्मणा । यथा - अविद्यायाश्च न कर्मणा नाश उपपद्यते दृष्टविषयत्वाच्च
सामर्थ्यस्य । उत्पत्त्याप्तिविकारसंस्कारा हि कर्मसामर्थ्यस्य विकाराः । उत्पादयितुं
प्रापयितुं विकर्तुं संस्कर्तुं च सामर्थ्यं कर्मणः (बृ० आ० उ० ३।३।१ शा० भा० ) ।
यथा च – इत्येवं जातीयका श्रुतिः केवलाया विद्यायाः पुरुषार्थ हेतुत्वं श्रावयति
(ब्र० सू० ३।४।१ शा० भा० ) । अत्र रत्नप्रभाटीकायामुक्तम् - सिद्धान्ते केवलज्ञानान्
मुक्तिः । ब्रह्मविद्यैव मोक्षकारणमित्युक्तम् । (बृ० उ० ४।४।७ शा० भा० ) । यथा च -
ईश्वरस्वरूपापरिज्ञानाद् बन्धस्तत्स्वरूपपरिज्ञानात्तु मोक्षः । तथा च श्रुतिः - ज्ञात्वा
देवे सर्वपाशापहानिः (ब्र० सू० ३/२/५ शा० भा०) । अत एव बन्धकारणभूताया
अविद्याया नाशार्थं न केवलं कर्म न वा ज्ञानकर्मसमुच्चयः अलं किन्तु विद्यया
ज्ञानेनैव अविद्यानाश: ।
 
अविधिः - यतकिञ्चित्कार्यनिदेशकं
विधिस्त्रिविधः - अपूर्वविधिः नियमविधिः
 
शास्त्रविहितं वाक्यं विधिः । अयं च
परिसंख्याविधिश्च । एवंविधशास्त्र-
विधेः परित्यागः अविधिः । यथा - यः शास्त्रविधिमुत्सृत्य वर्तन्ते कामकारतः
(गी० १६/२३) । ये शास्त्रविधिमुत्सृज्य यजन्ते श्रद्धयान्विताः (गी० १७।१)।
विशदज्ञानार्थं विधिशब्दो द्रष्टव्यः ।
 
-
 
अविनाभावः - १. अयमनेन विना अनुपपन्नः अथवा इदम् अनेन विना
अनुपन्नम् । यथोदाहरणम्-मत्स्यकण्टकं मत्स्यं विना अनुपन्नम् । अर्थापत्तिस्थलेऽप्येवमेव
भवति । यथा - नन्वर्थापत्तिस्थले इदमनेन विनानुपपन्नमिति ज्ञानं करणमित्युक्तम् ।
तत्र किमिदं तेन विनानुपन्नम् । तदभावव्यापका भावप्रतियोगित्वमिति ब्रूमः ( वे०
प०५५०) अविनाभावः अर्थापत्तिरूपेति वेदान्तिनः ।२. व्याप्तिः- कार्यकारणभावाद्वा
स्वभावाद्वा नियामकादि ते न्यायविदः । ३. सम्बन्धमात्रम्- यथा - मानान्तर -
विरोधे तु मुख्यार्थस्यापरिग्रहे । अभिधेयाविनाभूतप्रतीतिर्लक्षणोच्यते (भट्टवार्तिकम्) ।
स्वदेशवृत्तित्वं तादाम्यं च अविनाभावः । यथा व्यक्त्यविनाभावात् जात्या व्यक्ति-
राक्षिप्यते । अत्र भट्टमते अविनाभावस्तादात्म्यम् । गुरुमते जातेर्व्यक्त्याक्षेप इति
पूर्वमीमांसकाः (का० प्र० २।१६ टी०) ।
 
-