This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
.९१
 
(ब्र०सू० १।२।८ वे०क०त०) । अविद्यासम्बन्धस्तन्निरूपकाविद्याधीनः, अविद्या

तत्सम्बन्धाधीना, अविद्यासम्बन्धाधीनत्वात् सर्वविवर्तानाम् । तत्र तथेतरेतरतन्त्रत्व-

मनादित्वान्न दोषावहम् एवमिहापीत्यर्थः (क० त० प० ) ।
 
-
 

अविद्या जगत्कारणम् । अविद्यावशादेव ब्रह्म जगतो निमित्तकारणमुपादानकारणं

च भवति । यथा - शक्तिद्वयवदज्ञानोपहितचैतन्यं स्वप्रधानतया निमित्तं स्वोपाधिप्रधान-

तयोपादानं च भवति । यथा लूता तन्तुकार्यं प्रति स्वप्रधानतया निमित्तं

स्वशरीरप्रधानतयोपादानं च भवति (वे० सा०) । यथा च - अपि च नेयं पारिमार्थिकी

सृष्टिर्येनानुयुज्येत प्रयोजनम् । अपि त्वनाद्यविद्यानिबन्धना । अविद्या च स्वभावत एव

कार्योन्मुखी न प्रयोजनमपेक्षते । न हि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः

समुद्दिष्टप्रयोजना भवन्ति । न च तत्कार्या विस्मयभयकम्पादयः स्वोत्पत्तौ प्रयोजनम-

पेक्षन्ते । सा च चैतन्यच्छुरिता जगदुत्पादनहेतुरिति चेतनो जगद्योनिराख्यायते

अपि च न ब्रह्म जगत् (ब्र० सू० २ । १ । ३३ भाम०) । पुनस्तत्रैव - कारणमपि

तत्तथा विवक्षन्त्यागमाः । अपि तु जगति ब्रह्मात्मभावत्वम् । तथा च सृष्टेरविवक्षायां

तदाश्रयो दोषो निर्विषय एवेत्याशयेनाह - ब्रह्मात्मभावप्रतिपादनपरत्वाच्चेति ।
 
-
 
.....
 

अनया अनिर्वाच्यया अविद्यया अनिर्वचनीयमेव जगदुत्पद्यते । यथा-

अनिर्वाच्याच्चानिर्वचनीयोत्पत्तौ नानुपत्तिः । यादृशो हि यक्षस्तादृशो हि बलिरिति

सर्वमदातम् (ब्र० सू० ४।१।१५ भाम०) ।
 
-
 
- -
 

अविद्या बौद्धानां मते । बौद्धमते संसारानर्थमूलकारणमविद्या । यथा - यद्यपि
.

भोक्ता प्रशासिता वा कश्चिच्चेतनः संहन्ता स्थिरो नाभ्युपगम्यते । तथाप्यविद्यादीना-

मिततरकारणत्वादुपपद्यते लोकयात्रा । तस्यां चोपपद्यमानायां न किञ्चिदपरम-

पेक्षितमस्ति । ते चाविद्यादयोऽविद्या संस्कारो विज्ञानं नामरूपं षडायनम् ।

(ब्र० सू० २/२/१९. शा० भा० ) । यथा च तत्रैतेष्वेव षट्सु धातुषु यैकसंज्ञा

पिण्डसंज्ञा नित्यसंज्ञा सुखसंज्ञा सत्त्वसंज्ञा पुद्गलसंज्ञा मनुष्यसंज्ञा मातृदुहितृसंज्ञा

अहंकारममकारसंज्ञा सेयमविद्या संसारानर्थसम्भारस्य मूलकारणं तस्यामविद्यायां

सत्यां संस्कारा रागद्वेषमोहा विषयेषु प्रवर्तन्ते (तत्रैव भाम०) ।
 
-
 
-
 
7
 

अविद्या - वैयाकरणमते वासना । यथा- अविद्या अत्र वासनारूपा

(वै० सि० ल० म० बौद्धार्थ वाच्यत्वप्र०) । यथा च तस्माद् भ्रमरूपा स्थूला

अविद्या वासनारूपा चाव्यक्तपदवाच्या सूक्ष्माविद्या (तत्रैव) । .... योगसूत्रेऽप्युक्तम्-