2023-03-12 05:00:28 by ambuda-bot
This page has not been fully proofread.
शारवेदान्तकोशः
-
भा० भामत्याम्) । मधुसूदनसरस्वतीकृतसिद्धान्तबिन्दौ १ श्लोके पद्मपादाचार्य-
वाचस्पतिमिश्रसर्वज्ञात्ममुनीनां मतानि उद्धृतानि । ब्रह्मैव अविद्याया आश्रयः ।
आश्रयत्वविषयत्वभागिनी निर्विभागचितिरेव केवला । पूर्वसिद्धतमसो हि पश्चिमो
नाश्रयो भवति नापि गोचरः (सं० शा० १/१३९ ) । यथा च - चिदेवाज्ञानं
प्रत्याश्रयत्वविषयत्वभागिनीत्यर्थः । (तत्रैव अ० टी०) यथा च - अविद्याया आश्रयस्तु
शुद्धं ब्रह्मैव । तदुक्तम् आश्रयत्व .........
• इति दर्पणस्य मुखमात्रसम्बन्धेऽपि प्रतिमुखे
मालिन्यवत् प्रतिबिम्बे जीवे संसारः न बिम्बे ब्रह्मणि उपाधेः प्रतिबिम्बपक्षपातित्वात्
(अ० सि० अ० आश्रयनि० ) । यथा च - अविद्या सर्वज्ञाश्रया- ननु शुद्धब्रह्मणः
चिन्मात्रस्य ज्ञानाश्रयत्वे सार्वज्ञ्यविरोधः । न च विशिष्ट एव सार्वज्ञ्यम्, तुरीयं ब्रह्म
सर्वदृक् सदा इति शुद्धस्य सर्वज्ञत्वोपपत्तेरिति चेत्, न । सर्वदृकूपदेन सर्वेषां दृग्भूतं
चैतन्यमित्युच्यते, न तु सर्वज्ञं तुरीयम्, तस्माद् विशिष्ट एव सार्वज्ञ्यम् । तत्त्वविद्यां
विना न सम्भवतीत्यविद्यासिद्धिः । तथा हि- सर्वज्ञो हि प्रमाणतः स्वस्वरूपज्ञप्त्या वा ।
तत्र प्रमाणस्य भ्रान्तेश्चाविद्यामूलत्वात् असङ्गस्वरूपज्ञप्तेश्चाविद्यां विना विषयासङ्गतेः
(तत्रैव) । अविद्या जीवाश्रयेति वाचस्पतिमिश्रादीनां मतम् यथा - वाचस्पतिमिश्रैस्तु
जीवाश्रितैवाविद्यां निगद्यते । ननु जीवाश्रिताऽविद्या तठप्रतिबिम्बचैतन्यं वा तदवच्छिन्न-
चैतन्यं वा तदवच्छिन्नभेदो वा जीवः । तथा चान्योन्याश्रय इति चेन्न । किमयमन्योन्याश्रय
उत्पत्तौ ज्ञप्तौ स्थितौ वा । नाद्यः अनादित्वादुभयोः । न द्वितीयः अज्ञानस्य चिद्भास्यत्वेऽपि
चितेः स्वप्रकाशत्वेन तदभास्यत्वात् । न तृतीयः स किं परस्पराश्रितत्वेन वा
परस्परसापेक्षस्थितिकत्वेन वा स्यात् । तन्न उभयस्याप्यसिद्धेः । अज्ञानस्य चिदाश्रयत्वे
चिदधीनस्थितिकत्वेऽपि चिंति अविद्याश्रितत्वतदधीनस्थितिकत्वयोरभावात् । न
चैवमन्योन्याधीनता क्षतिः । समानकालीनयोरप्यवच्छेद्यत्वावच्छेदकत्वभावमात्रेण
तदुपपत्तेः। घटतदवच्छिन्नाकाशयोरिव प्रमाणप्रमेययोरिव च। तदुक्तम्- स्वेन
कलिगते देशे व्योम्नि यद्वद् धटादिकम् । तथा जीवाश्रयाविद्यां मन्यन्ते ज्ञानकोविदाः ।
तस्माज्जीवाश्रयत्वेऽप्यदोषः (तत्रैव अविद्याजीवाश्रयनिरूपणे ) ।
…....
-
जीवस्य अविद्याश्रयत्वेन न आत्माश्रयदोषः । यथा - स्वाश्रिताविद्याश्रितत्वं
जीवस्यात्माश्रयत्वमिति । चेत् किमतः ? उत्पत्तिज्ञप्तिप्रतिबन्धनत्वेन ह्यात्माश्रयत्वस्य
दोषता । न चानयोरुत्पत्तिः, अनादित्वात् । प्रतीतिस्तु जीवस्य स्वतस्तद्बलादविद्यायाः,
तथापि स्वस्कन्धारूढारोहवत् स्वाश्रिताश्रितत्वं विरुद्धमिति चेत्, न, स्वाश्रिताश्रितत्वस्य
क्वचिठप्रमितांवरोधादप्रमिताव्याप्यादस्मादव्यापकस्य विरोधस्य दुःष्प्रसञ्जनत्वात्