This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
८९
 
कस्यचिदित्यनिर्मोक्षप्रसङ्गः। प्रधानाभेदेऽपि चैतदविवेकख्यातिलक्षणाविद्या सद-

सत्त्वनिबन्धनौ बन्धमोक्षौ तर्हि कृतं प्रधानेन अविद्यासदसदभ्यामेव तदुपपत्तेः । न

च अविद्योपाधिभेदाधीनो जीवभेदो जीवभेदाधीनश्चाविद्योपाधिभेद इति परस्पराश्रया-

दुभयासिद्धिरिति साम्प्र॒तम् । अनादित्वाद् बीजाङ्कुरवदुभयसिद्धेः । अविद्यात्वमात्रेण

चैकत्वोपचारोऽव्यक्तमिति चाव्याकृतमिति च (ब्र० सू० १ ४ । ३ भाम०) । अविद्याया

प्रतिजीवं नानात्वे भगवत्पादैरुक्तम्- यथा हि बिम्बस्य मणिकृपाणादयो गुहाः एवं

ब्रह्मणोऽपि प्रतिजीवं भिन्ना अविद्या गुहा । एकजीववादीष्टसिद्धिकाराचार्यमत

इव विवरणकाराणां मतेऽपि मूलाविद्याया एकत्वम् । यथा- ब्रह्मैकमेव स्वाविद्यया

जगदाकारेण विवर्तते स्वप्नादिवदिति मतान्तरम् । तस्माद् ब्रह्मैव स्वमायया अविद्यया

विवर्तते इति (प० पा० विव० ७ वर्णक) । अत्र व्याख्यायां चित्सुखाचार्यः ब्रवीति -

ब्रह्मसिद्धिकाराणां मतमाह - जीवा एवेति । इष्टसिद्धिकाराणां मतमाह - ब्रह्मैकमेवेति

अन्त्यं पक्षमुपसंहरति - तस्मादिति (तात्पर्यदीपिकायाम् ) । अत्रैव व्याख्यायाम्-

अखण्डानन्दो ब्रवीति- सिद्धान्तरहस्यमाह- ब्रह्मेति । किं तर्हि उपादेयमित्यत्राह -

तस्मादिति। न चैकमुक्तौ सर्वमुक्तिप्रसङ्गः, इष्टापत्तेः । शिष्टमिष्टसिद्धौ द्रष्टव्यम्

(तत्त्वदीपने) । एवमेव तत्र प्रथमवर्णकऽपि ।
 
-
 
-
 
-
 
-
 
L
 
-
 

मूलाज्ञानाद् ब्रह्मणो जीवभावस्तूलाज्ञानाद् शुक्तौ रजतादिभानम् । अविद्यायाः

शक्तिद्वयम् । विक्षेपशक्तिः आक्षेपशक्तिश्च । अतोऽविद्या द्विधोच्यते । यथा - विक्षेपा-

वृत्तिरूपाभ्यां द्विधाऽविद्या व्यवस्थिता । न भाति नास्ति कूटस्थ इत्यापादनमावृत्तिः

(प० द० ६।२६) ।
 
-
 
-
 

इयमविद्या समष्टिव्यष्टिभेदेनापि द्विधा - यथा - इदमज्ञानं समष्टिव्यष्ट्यभि

प्रायेणैकमनेकमिति व्यनहियते । तथा हि यथा वृक्षाणां समष्ट्यभिप्रायेण वनमित्येक-

व्यपदेशः । यथा वा जलानां समष्ट्याभिप्रायेण जलाशय इति तथा नानात्वेन प्रतिभा-

समानानां जीवगताज्ञानानां समष्ट्यभिप्रायेण तदेकत्वव्यपदेशः । अजामेका-

मित्यादिश्रुतेः (वे० सा० १२) । ... यथा वनस्य व्यष्ट्यभिप्रायेण वृक्ष इत्यनेकत्व-

व्यपदेशः । ... तथाज्ञानस्य तदनेकत्वव्यपदेशः । इन्द्रो मायाभिः पुरुरूप ईयते

(बृ० उ० २/५/१९) (वे० सा० १३) ।
 

अविद्याया आश्रयो विषयश्च एकमेव ब्रह्मेति विवरणप्रस्थाने । अविद्याया

आश्रयो जीवः विषयश्च ब्रह्मेति भामतीप्रस्थानमतम् (ब्र० सू० १/१/४ शा०