2023-03-12 05:00:28 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
स्वप्नमद्वैतं बुध्यते तदा (गौ०पा० कारि० १/१६) (ब्र० सू० २।१।९ शा० भा० ) ।
यथा च - कृत्स्नप्रसक्त्यधिकरणे ब्र० सू० २/१/२६-२९ शा० भा० ) पञ्चपादिका-
विवरणे आदौ च । केषाञ्चनमते मायाविद्ययोर्भेदः । शुद्धसत्त्वप्रधाना माया । अनया
सह ईश्वरेण सम्बन्धः । मलिनसत्त्वप्रधाना अविद्या अनया सह जीवेन सम्बन्धः ।
पञ्चपादिकाविवरणे संक्षेपशारीरके च अनयोर्भेदवादः खण्डितः । श्रीसुरेश्वराचार्यो
विद्यारण्यस्वामी चानयोरभिन्नत्वमङ्गीकुरुतः । माधवाचार्यस्य सर्वदर्शनसङ्ग्रहेऽनयोर्भेदः
प्रतिपादितः । केचित्तु काल्पनिकोरनयोर्भेदः । वस्तुत एकैव ।
८८
एका
-
-
इयमविद्या द्विविधा मूला तथा तूला यथा - अनिर्वाच्याविद्याद्वितीयसचिवस्य
प्रभवतः (ब्र० सू० भामती मङ्गलश्लोके वे० क० त० ) । इदमपि तत्रैवोक्तम्-
अविद्या अनादिर्भावरूपा देवताधिकरणे । ( ब्र० सू० १ । ३ । २६-३३)
वक्ष्यते । (ब्र० सू० भामती - म० श्लो० वे० क० त०) यथा च - अनावृत्तिः
(ब्र० सू० ४।४।२२) सूत्रभाष्ये - सम्यग्दर्शनविघ्नस्तमसाम्- इति पङ्क्तेर्व्याख्याने
भामत्यां द्विधाविद्या तमः इत्युक्तम् । अस्याः पङ्क्तेर्व्याख्याने वे० क० तरौ-
द्विधा कार्यकारणरूपा - इत्युक्तम् । यथा च- प्रवृत्तेश्च (ब्र० सू० २/२/२) सूत्र-
भामत्याम्- कारणभूतया लयलक्षणयाऽविद्यया प्राक् सर्गोपचितेन च विक्षेपसंस्कारेण
यत्प्रत्युपस्थापितं नामरूपं तदेव माया तदावेशेनास्य चोद्यस्यांसकृत् प्रत्युक्तत्वात् ।
एतदुक्तं भवति -नेयं सृष्टिर्वस्तुसती । येनाद्वैतिनो वस्तुसतो द्वितीयस्याभावादनुयुज्यते ।
काल्पनिक्यां तु सृष्टावस्ति काल्पनिकं द्वितीयं सहायं मायामयम् । यथाद्दुः
सहायास्तादृशा एव यादृशी भवितव्यता । इति । न चैवं ब्रह्मोपादानत्वव्याघातः । ब्रह्मण
एव मायावेशेनोपादनत्वात् तदधिष्ठानत्वाज्जगद्विभ्रमस्य रजतविभ्रमस्येव शुक्तिका-
धिष्ठानस्य शुक्तिकोपादनत्वमिति निरवद्यम् (भाम०) । यथा च - मूलाविद्यामाह
अविद्या प्रथते मौली व्यक्ताव्यक्तात्मनाऽनिशंम् (बृ० उ० भा० वा० १ ।२।१३६) ।
यथा च – मूलाज्ञानस्य तूलाज्ञानहेतुत्वात् । (प० पा० आदौ ) एवमेव - अत्रत्ये चित्सुखाचार्य-
प्रणीततात्पर्यदीपिकाव्याख्या अखण्डानन्दप्रतीतं तत्त्वदीपनं चावलोकनीये ।
-
-
-
-
मूलाविद्याया नानात्वम् एकत्वं च । नानाजीववादिमण्डनमिश्रमते तदनुवर्ति-
वाचस्पतिमिश्रमते च प्रतिजीवमविद्याभेदादविद्याया नानात्वम् । यथा - अयमभिसन्धिः
न वयं प्रधानवदविद्यां सर्वजीवेष्वेकामाचक्ष्महे । येनैवमुपालभ्येमहि । किन्त्वियं प्रति-
जीवं भिद्यते । तेन यस्यैव जीवस्य विद्योत्पन्ना तस्यैवाविद्यापनीयते न जीवान्तरस्य ।
भिन्नाधिकरणयोर्विद्याविद्ययोरविरोधात् । तत्कुतः
प्रधानवादिनां त्वेष दोषः । प्रधानस्यैकत्वेन तदुच्छेदे
समस्तसंसारोच्छेदप्रसङ्गः ।
सर्वोच्छेदोऽनुच्छेदे वा न