2023-03-12 05:00:28 by ambuda-bot
This page has not been fully proofread.
शावेदान्तकोशः
परिणामित्वायोगो ब्रह्मवत् । न च अविद्यापक्षेऽपि समः पर्यनुयोगस्तस्याः काल्पनिकत्वेन
पर्यनुयोगायोगात् । तस्मादर्थापत्तिरविद्यायां प्रमाणम् ( अ० सि० अ० अर्था० ) ।
८७
एवमेव शाङ्करभाष्ये । यथा- विद्यया तस्या बीजशक्तेर्दाहात् । अविद्यात्मिका
हि बीजशक्तिरव्यक्तशब्दनिर्देश्या परमेश्वराश्रया मायामयी महासुप्तिः । यस्यां
स्वरूपप्रतिबोधरहिताः शेरते संसारिणो जीवः । तदेतदव्यक्तं क्वचिदाकाशशब्द-
निर्दिष्टम् । एतन्नु खल्वक्षरे गार्ग्याकाश ओतप्रोतश्च (बृ० ३/८/११) इतिश्रुतेः ।
क्वचिदक्षरशब्दोदितम् (अक्षरात्परतः परः (मु० २।१।२) इति श्रुतेः । क्वचित् मायेति
सूचितम् । मायां तु .... (श्वे० ४/१०) (द्र० सू० १।४।३ शा० भा०) ।
इयं च अनिर्वचनीया - सत्त्वेन असत्त्वेन सदसत्त्वेन सदसदभावत्वेन वक्तुम-
शक्या । यदि सती तदा कदापि न नश्येत । यद्यसती तदा जगत्कारणं न भवेत् ।
यतो हि अभावस्य कारणत्वं नाङ्कीक्रियते । तथा सति कार्यकारणभावनियमो विलुप्येत
तथा अभावः सर्वोत्पादको भवेत् । सदसत्त्वं सदसदभावत्वं च न कुत्रापि प्रसिद्धम् ।
अतोऽविद्या सदादिचतुष्कोटिविनिमुर्ता अनिर्वाच्या । एवंभूताया अस्या मूलम् ऋग्वेदे
एवमुपलभ्यते - नासदासीन्नो सदासीत्तदानीं नासीद् रजो नो व्योमापरो यत् ।
किमावरीवः कुहकस्य शर्मन्नम्भः किमासीद् गहनं गभीरम् । न मृत्युरासीदमृतं न तर्हि
न रात्र्या अह्न आसीत्रकेतः । आनीदवातं स्वधया तदेकं तस्माद्धान्यत्र परः किञ्च
नास । तम आसीत् तमसागूढमग्रे प्रकेतं सलिलं सर्वमा इदम् । तुच्छेनाभ्वपिहितं
यदासीत्तपसस्तन्महिम्ना जायतैकम् । कामस्तदग्रे समवर्तताधिमनसो रेतः प्रथमं
यदासीत् । (ऋ० वे० १०/१२९।१-४) एवमेवास्या मूलं शतपथब्राह्मणेऽपि - अथ
ब्रह्मैव परार्द्धमगच्छत् । तत्परार्द्धं गत्वा ऐक्षत कथं खल्विमाँल्लोकान् प्रत्यवेयामिति ।
तद् द्वाभ्यामेव प्रत्यवैद् रूपेण च नाम्ना च (श० प० ब्रा० १ । १ । २ । ३) । यथा च-
अनिर्वाच्याविद्याद्वितयसचिवस्य प्रभवतः - इत्यादि (ब्र० सू० भामतीमङ्गलश्लोके) ।
अविद्याबलादेव ब्रह्मणो रूपद्वयमुपलभ्यते । यथा - द्विरूपं हि ब्रह्मावगम्यते ।
नामरूपविकारभेदोपाधिविशिष्टं विपरीतं च सर्वोपाधिविवर्जितम्
(ब्र० सू० १/१/११२ शा० भा० ) । माया तथा अविद्या एकैव अभिन्ना तथा
केषाञ्चनमते भिन्ना । एकैव अभिन्ना इति । यथा - मायामात्रं ह्येतद् यत्
परमात्मनोऽवस्थात्रयात्मनावभासनं रज्ज्वा इव सर्पादिभावेनेति । अत्रोक्तं वेदान्तार्थ-
सम्प्रदायविद्भिराचार्यैः – अनादिमायया सुप्तो यदा जीवः प्रबुध्यते । अजमनिद्रम-
-
तद्