2023-03-21 01:16:03 by Vidyadhar Bhat
This page has been fully proofread once and needs a second look.
स्वप्नाभमस्तधिषणं पुरुदुःखदुःखम् । त्वय्येव नित्यसुखबोधतनावनन्ते मायात
उद्यदपि यत् सदिवावभाति (तत्रैव १०।१४।२२) ।
१ - अविद्यासाधिका अर्थानुपत्ति:- यथा - जीवस्यानवच्छिन्नब्रह्मानन्दा-
प्रकाशान्यथानुपपत्तिश्च तत्र मानम् । न च जीवस्य ब्रह्मभेदेनैव तादृगप्रकाशोपपत्तिः ।
जीवब्रह्मभेदस्याग्रे निरसिष्यमाणत्वात् । न चानवच्छिन्नानन्दस्यापि प्रकाशमाना-
प्रकाशमानत्वानुपपत्तिः । शरीरप्रतियोगिकस्यात्मनि स्वरूपभेदस्यात्माकारेण
प्रकाशमानत्वेऽपि भेदाकारेणाप्रकाशमानत्ववद्रूपान्तरेण ब्रह्मणः प्रकाशमानत्वेऽपि
८६
उक्ताकारेणाविद्यावशादप्रकाशमानत्वोपपत्तेरुक्तत्वात् ।
२. भ्रमस्य सोपादानत्वान्यथानुपपत्तिरपि अविद्यायां प्रमाणम् । न चान्तः-
करणोपादानम् । अन्तःकरणस्य ज्ञानजनने प्रमाणव्यापारसापेक्षत्वेन प्रमाणाविषये
शुक्तिरूप्यादौ ज्ञानजनकत्वात् सादित्वेनानादिभ्रमपरम्परानुपादानत्वाच्च । न च
ब्रह्मैवोपादानम्, तस्यापरिणामित्वात् । न च विवर्ताधिष्ठानत्वेन शुक्त्यादेरिवोपादानत्वम् ।
अविद्यामन्तरेणातात्त्विकान्यथाभावलक्षणस्य विवर्तस्यैवासम्भवात् शुक्त्यादेरधिष्ठा-
नावच्छेदकतया विवर्ताधिष्ठानाभावात् । न च उपादानापेक्षस्य विवर्तस्य तात्त्विकाति-
रिक्तोपादानकल्पनवदविद्यादेराश्रयसापेक्षस्य ब्रह्मातिरिक्तमतात्त्विकमधिकरणं कल्प्यं
स्यादिति वाच्यम् । ब्रह्मण एव विकारित्वे अनित्यत्वादिप्रसक्तिवद् ब्रह्मण एवाधिष्ठानत्वे
बाधकाभावेन द्वितीयस्याधिकरणस्याकल्पनात् । न च असत्यस्य सत्यरूपान्तरापत्ति-
लक्षणपरिणाम्यनपेक्षत्वेन परिणामित्वेनापि नाविद्याकल्पनमिति वाच्यम् । परिणाम -
सत्तासमानसत्ताकृत्वनियमेनासत्यत्वस्यैवाभावात् । न च घटादौ स्वसमान-
सत्ताकोपादानकत्वदर्शनेन प्रपञ्चेऽपि तादृशोपादानकल्पने घटादेः स्वाधिक-
सत्ताकोपादानानपेक्षत्ववद् वियदादेरपि ब्रह्मानुपादनत्वं स्यादिति वाच्यम् । तदभिध्यानादेव
तु तल्लिङ्गात् सः इत्यनेन न्यायेन घटादेरपि मृदवस्थचैतन्योपादनकतया
तादृशोपादानानपेक्षत्वासिद्धेः । अत एव रूप्येपि स्वसमानसत्ताकस्य निमित्तस्यापि
कल्पनापत्तिरिति निरस्तम् । निमित्तमात्रे इयं कल्पना विशेषे वा । नाद्यः अधिष्ठान-
रूपनिमित्तस्य सर्वत्राधिकसत्ताकत्वात् । द्वितीये उत्तरोत्तरभ्रमे पूर्वपूर्वभ्रमस्य
निमित्तत्वेनेष्टापत्तेः। न च त्रिगुणात्मकं प्रधानमुपादानमिति वाच्यम् । तस्यासत्यत्वे
अविधानतिरेकात् । सत्यत्वेऽपि सावयवं निरवयवं वा । आद्ये अनादित्वभ्रमः । द्वितीये
.
1
.