2023-03-12 05:00:27 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
८५
-
(तत्रैव ३।९।१ ) । तस्मादिदं जगद- अविद्याप्रतीत्युपपत्तिः । यथा - सा च अविद्या.
साक्षिवेद्या न तु शुद्धचिप्रकाश्या । साक्षि चाविद्यावृत्तिप्रतिबिम्बितचैतन्यम् । तेन
निर्दोषचित्प्रकाश्यत्वेनाज्ञानस्य पारिमार्थिकत्वापत्तिः । मोक्षेऽपि तत्प्रकाशापत्तिः । न च
तदानीमविद्याया निवृत्तत्वात् प्रकाशाभावः, प्रतीतिमात्रशरीरस्य प्रतीत्यनुवृत्तौ
निवृत्ययोगादित्यादिदोषानवकाशः । अत एवोच्यते राहुवत् स्वावृतचैतन्यप्रकाश्याऽ विद्येति ।
न· चैवं कदाचिदविद्याया अप्रतीत्यापत्तिः । इष्टापत्तेः । समाधौ तथाभ्युपगमात् । न च
विद्यावृत्तेर्दोषजन्यत्वादत्र कथमविद्यावृत्तिः । अविद्याया एव दोषत्वात् । न च वृत्तेरपि
वृत्त्यन्तरप्रतिबिम्बितचिद्भास्यत्वे अनवस्था । स्वस्या एव स्वभानोपाधित्वात् । ननु
प्रमाणागम्यायामविद्यायां प्रमाणोपन्यासवैयर्थ्यम् । न च प्रमाणैरसद् व्यावृत्तिमात्रं बोध्यत
इति वाच्यम् ।अज्ञानमगृह्णताम्..... तथा चासद्व्यावृत्त्युपनयने प्रमाणानां चरितार्थत्वाद्
न काप्यनुपपत्तिः (अ० सि० अ० प्र० उप० ) । अविद्याया लक्षणम् - यथा - अथ
केयमविद्या । न तावदनादिभावरूपत्वे सति ज्ञाननिर्वर्त्या सेति । सादिशुक्त्याद्यवच्छिन्न-
चैतन्यावारकांज्ञानेऽव्याप्तें: । तस्यानादित्वाभावात् । अभावोपादानाज्ञाने च भावत्वा-
भावात् तत्राव्याप्तिः । अभावस्य भावोपादानकत्वे असत्यस्यापि सत्योपादानकत्वं स्यात् ।
अज्ञानुपादानकत्वे तस्य ज्ञानान्निवृत्तिर्न स्यादिति । तत्र ब्रूमः रूप्योपादानाज्ञानमप्यनादि-
चैतन्याश्रितत्वादनाद्येव उदीच्यं शुक्त्यादिकं तु तदवच्छेदकमिति न तत्राव्याप्तिः
( अ० सि० अ० ल०) । अज्ञानसाधकमनुमानम्- अनुमानमपि विवरणोक्तं प्रमाणम् ।
विवादपदं प्रमाणज्ञानं स्वप्रागभावव्यतिरिक्तस्वविषयावरणस्वनिर्वत्यस्वदेशगत-
वस्त्वन्तरपूर्वकमप्रकाशितार्थप्रकाशकत्वात् अन्धकारे प्रथमोत्पन्नप्रदीपप्रभावदिति ।
अत्र प्रमाणपदं प्रमाणवृत्तेरेव पक्षत्वेन सुखादिप्रमायां साक्षिचैतन्यरूपायामज्ञाना-
निवर्तिकायां बाधवारणाय । धर्म्यंशप्रमाणवृत्तेरिदमित्याकाराया अज्ञानानिवर्तिकायाः
पक्षबहिर्भावाय विवादपदमिति विशेषणम् । विशेषाकारप्रमाणावृत्तिरिति फलितोऽर्थः
(अ० सि० अ० अनु० उप.) । तत्त्वप्रदीपिकायां श्रीचित्सुखाचार्येण अनुमानप्रकार
एवमभिहितः - विगीतं देवदत्तनिष्ठप्रमाणज्ञानं देवदत्तनिष्ठप्रमाभावातिरिक्ता-
नादेर्निवर्तकं प्रमाणत्वाद् यज्ञदत्तादिगतप्रमाणज्ञानवदित्यनुमानम् । ये तु प्रमा-
प्रागभावनिवृत्तिरेव न तु निवर्त्तिकेति मन्यन्ते । तान् प्रति देवदत्तप्रमा
तन्निष्ठप्रमाभावातिरिक्तानादिनिवृत्तिरिति प्रयोक्तव्यम् । अधिकं तु तत्र द्रष्टव्यम् ।
एतप्रसङ्गे श्रीकुलार्कपण्डितदशश्लोकिमहाविद्यासूत्रं तथा एतदाधारेण पण्डित-
महादेवसर्वज्ञवादीन्द्रनिर्मितं महाविद्याविडम्बनमिति ग्रन्थद्वयं द्रष्टव्यम् । दशश्लोक-