This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
अविद्यासाधिका श्रुतिः । यथा - एवं श्रुतयश्च । तत्र छान्दोग्ये अष्टमाध्याये -

तद्यथापि हिरण्यं निधिनिहितमक्षेत्रज्ञा उपर्युपरि संचरन्तो न विन्देयुरेवमेवेमाः सर्वाः

प्रजा अहरहर्गच्छन्त्य एवं ब्रह्मलोकं न विदन्त्यनृतेन प्रत्यूढा इति श्रुतिर्बह्मज्ञान-

प्रतिबन्धकत्वे नानृतं ब्रुवाणा तादृगज्ञाने प्रमाणम् । न च ऋतशब्दस्य ऋतं पिवन्तौ

इत्यत्र सत्कर्मणि प्रयोगदर्शनात् ऋतं सत्यं तथा धर्म इति स्मृतेश्च ऋतशब्दस्य

सत्कर्मपरत्वादनृतशब्दस्य दुष्कर्मपरत्वमिति वाच्यम् उतरत्र च आत्मापहतपाप्मेत्यादिना

आत्मनोऽपहत पाप्मत्वप्रतिपादनेन दुष्कर्मप्रत्यूढविरोधात् । सुषुप्तौ कर्ममात्रनिषेधे

दुष्कर्मणोऽप्यभावात् । तस्मादनृतेन प्रत्यूढाः नीहारेण प्रत्यूढाः तम आसीत्

मायां तु प्रकृतिं विद्यात् अजामेकां लोहितशुक्लमेकामविद्यायामन्तरे वर्तमानः

भूयश्चान्ते विश्वमायानिवृत्तिरित्याद्याः श्रुतयो वर्णिता अज्ञाते प्रमाणमिति स्थितम्

(अ० सि० अ० श्रु०) । यथा च - अथ ब्रह्मैव परार्द्धमगच्छत् । तत्परार्द्धं गत्वा ऐच्छत्

कथं न्विमाल्लोकान् प्रत्यवेयामिति । तद् द्वाभ्यामेव प्रत्यवैद् रूपेण च नाम्ना च

(श० ब्रा० १ ।१।२।३) । सम्यगध्यात्मविद्भिर्दर्शितार्थे विपरीतज्ञानमविद्या (पा०

यो० सू० २।५ व्या० भा० ) । ब्रह्मसूत्रस्य श्रीरामानुजस्वामिप्रणीतश्रीभाष्ये १ । १ ।१

इत्यत्र अविद्यायां सप्तविधानुपपत्तयः प्रदर्शिताः । श्रीकृष्णानन्दसरस्वतीप्रणीते

सिद्धान्तसिद्धाञ्जने श्रीभाष्योक्तस्य तथा तट्टीकाश्रुतिप्रकाशिकोक्तस्य च

समालोचनमस्ति ।
 
८४
 

शास्त्रान्तरेऽप्येवम्भूता माया अविद्या बहुशो वर्णिता - इत्येषा सहकारिशक्तिरसमा

माया दुरुन्नीतितो मूलत्वात् प्रकृतिः प्रबोधभयतोऽविद्येति यस्योदिता । देवोऽसौ

विरतप्रपञ्चरचनाकल्लोलकोलाहलः । साक्षात् साक्षितया मनस्यभिरतिं बध्नातु शान्तो

मम (उदयनाचार्यःन्यायकुसुमाञ्जलौ १ ।२०) । किन्तु मोहवशादस्मिन् दृष्टेऽप्यनुपलक्षिते ।

शक्त्याविष्करणेनेयं प्रत्यभिज्ञोपदर्श्यते (ईश्वरप्रत्यभिज्ञायाम् ३) । दुःखजन्मप्रवृत्ति-

दोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः (न्यायदर्शने १ । १ । २) । अविद्या-

स्मितारागद्वेषांभिनिवेशाः पञ्च क्लेशाः ।(पा०यो०सू०२।३) प्रकृतिपुरुषयोरेकदर्शनम-

वि॑िवेकः ख्यातिर्भावरूपा प्रतीयते । तयोरन्याख्यातिरेव विवेकः । विवेकेन अविवेको

निवर्तते (सांख्ययोगयोः) । नासद्रूपा न सद्रूपा माया नैवोभयात्मिका । अनिर्वाच्या

ततो ज्ञेया मिथ्यारूपा सनातनी (बृहन्नारदीये) । ऋतेऽर्थं यत् प्रतीयेत न प्रतीयेत

चात्मनि । तद् विद्यारात्मनो माया यथाभासो यथा तमः (भा० २।९।३३) ।

नान्यत्त्वदस्ति भगवन्नपि तन्न शुद्धम् । मायागुणव्यतिकराद् यदुरुर्विभासि ।