This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
८३
 
-
 
अविद्या –
अविद्या, अविद्या
अज्ञानम् । अनादित्वे सति भावरूपा ज्ञाननिर्वत्या अविद्येति लक्षणम् ।

उत्तरज्ञानेन पूर्वज्ञानस्य निवर्तनात्तत्र अतिव्याप्तिवारणाय अनादिविशेषणम् ।

ज्ञानरूपकार्येण ज्ञानप्रागभावनाशेऽतिव्याप्तिवारणाय भावत्वे सतीति विशेषणम् ।

आत्मनि दोषवारणाय ज्ञाननिर्वर्त्येति विशेषणम् । इयमविद्या अनादिः भावरूपा

(अभावरूपा न) ज्ञाननिर्वत्या अनिर्वचनीया । इयमज्ञानं शक्तिः तमः माया अजा

अव्यक्तम् प्रकृतिः इत्यादिशब्दैर्व्यवह्रियमाणा वेदे शास्त्रे लोके च परिलक्ष्यते ।

यथा- दूरमेते विपरीते विषूची अविद्या (का० उ० २१८) अविद्यायामन्तरे वर्तमानाः

(मु० उ० २१८) मायामेतां तरन्ति ते (गी० ३।१४) मम माया दुरत्यया (तत्रैव

७।१४) तमसो मा ज्योतिर्गमय (बृ० उ० १।३।२८) अजामेकां लोहितशुक्ल-

कृष्णाम् (सां० त० कौ० १।१ ) महतः परमव्यक्तमव्यक्तात्पुरुषः परः (का० उ०

३।११) भूयश्चान्ते विश्वमायानिवृत्तिः । अज्ञानेनावृतं ज्ञानम् । ते ध्यानयोगानुगता

अपश्यन् । देवात्मशक्तिं स्वगुणैर्निगुणम् । परास्य शक्तिर्विविधैव श्रूयते । भगवता

शङ्कराचार्येण अस्याः कृते इमे शब्दा प्रयुक्ताः - मिथ्याज्ञानं मिथ्याप्रत्ययः मिथ्याबुद्धिः

(ब्र० सू० १/१/१, ११४, १/२८, २११४, २३३१४/१/१९, शा०

भा०) अव्यक्तम् (बृ० उ० ३/८/११ शा० भा०) अक्षरः (ब्र० सू० १।४।३ शा०

भा०) महासुषुप्ति: (ब्र० सू० १।४।३ शा० भा०) आकाश: (बृ० उ० ३/८/११

शा० भा०) अक्षरः (मु० उ० २।१/२ शा० भा०) अध्यासः (ब्र० सू० उपो० शा०

भा०) माया (ब्र० सू० २।१।९ शा० भा०, ब्र० सू० १।३।९ शा० भा० ) तथा

भ्रान्तिः । यथा- भ्रमात् संस्कारतश्चान्या मण्डूकं मृदुदाहृतेः । भावरूपा मताविद्या स्फुटं

वाचस्पतेर्मतम् (ब्र० सू० १ । ३ । ३० वे० क० त०) । पञ्चपादिकायामादावेव अविद्यायाः

पञ्चदशनामानि लिखितानि - येषां श्रुतिस्मृतीतिहासपुराणेषु नामरूपम् अव्यांकृतम्

अविद्या माया प्रकृतिः अग्रहणम् अव्यक्तम् तमः कारणं लयः शक्तिः महासुषुप्तिः

निद्रा, अक्षरमाकाशम् । इति ।
 
-
 
-
 

अविद्या भावरूपा । यतो हि अभावरूपत्वे अभावस्य परिणामासम्भवाज्जगतस्तदु

पादनत्वप्रतिपादनमसम्भवं स्यात् । एवं च ज्ञानाभावातिरिक्तस्य भावरूपस्य सत्त्वे

अहमज्ञः, सुखमहमस्वाप्सम् न किंचिदवेदिषम् इत्याद्यनुभवः प्रत्यक्षं प्रमाणम् । एवं च,
 
-
 
-
 

अविद्याया इदं स्वरूपम् - यथा- अज्ञानं तु सदसद्भ्यात्मनिर्वचनीयं त्रिगुणात्मकं

ज्ञानविरोधि भावरूपं यत् किंचिदिति वदन्ति अहमज्ञ इत्याद्यनुरोधात् । देवात्मशक्तिं

स्वगुणैर्निगूढ़ामित्यादिश्रुतेश्च (वे० सा० १ ) ।