This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
-
 
....
 
अवान्तरप्रलयः, अवान्तरप्रलय
यथा - इदानीं प्रलयो निरूप्यते - प्रलयो नाम त्रैलोक्यनाशः ।

स च चतुर्विधः - नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः ।

तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मनाऽवस्थानम् ।

तेन सुषुप्तोस्थितस्य न सुखदुःखाद्यनुभवानुपपत्तिः । प्राकृतप्रलयस्तु कार्यब्रह्मविनाश-

निमित्तकः सकलकार्यनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो

ब्रह्माण्डाधिकारलक्षणप्रारब्धकार्यसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः, तदा

तल्लोकवासिनाम् अप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह

सह विदेहकैवल्यम् ।

... स्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां च लयः न तु ब्रह्मणि । बाधरूप-

विनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते । कार्यब्रह्मणो दिवसावसान-

निमित्तकस्त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः । ब्रह्मणो दिवसश्च चतुर्युगसहस्रपरिमितकालः ।

· चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इति वचनात् । प्रलयकालो दिवसकालपरिमितः ।

रात्रिकालस्य दिवसकालतुल्यत्वात् । .... तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः

सर्वमोक्षः । स च एकजीववादे युगपदेव । नानाजीववादे तु क्रमेण । सर्व एकीभवन्ति

इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः । तुरीयस्तु ज्ञानोदयनिमित्तो

लयोऽज्ञानेन सहैवेति विशेषः । एवं चतुर्विधप्रलयो निरूपितः (वे० प० ७ १०) ।
 
८२
 
अबि

 
अवि
क्रियः - , अविक्रिय
विकाररहितः अचिन्त्यः आत्मा । यथा - अत एवाचिन्त्योऽयं

यद्धीन्द्रियगोचरं वस्तु तच्चिन्ताविषयत्वमापद्यतेऽयं त्वात्मानिन्द्रियगोचरत्वाद-.

चिन्त्योऽत एवाविकार्यो यथा क्षीरं दध्यातञ्चनादिना विकारि न तथायमात्मा ।

निरवयत्वाच्चाविक्रियः । न हि निरवयवं किञ्चिद् विक्रियात्मकं दृष्टम् (गी० २/२५

शा० भा०) । अविक्रियम् = परिणामरहितम् । यथा = अपरिणामीत्यर्थः । यद् वा

जायतेऽस्ति वर्द्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावविकारस्तच्छून्यमित्यर्थः

(सं० शा० १/१ सु० टी०) ।
 
-
 

 
अविचलम् - , अविचल
परिणामरहितम्, यस्य परिणामो न भवेद् ब्रह्मेत्यर्थः । यथा -

अविचलं न परिणामीत्यर्थ: (सं० शा० ३/२९२ अ० टी० ) ।
 
-
 

 
अविज्ञातम् - विषयत्वेन, अविज्ञात
विषयत्वेन अविज्ञात
म् यथा ब्रह्म । यथा - विषयत्वेनाविज्ञातमेव

ब्रह्म सम्यग् विजानतां विज्ञातमेव विषयतया भवति । यथावदविजानतां दृष्टेश्चक्षुर्जन्यायाः

कर्मभूतायाः द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्या अनया न पश्येः । विज्ञाते

बुद्धिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् (ब्र० सू० १ ।१।४ वे० क० त०) ।