This page has not been fully proofread.

शाङ्कुरवेदान्तकोशः
 
-
 
....
 
अवान्तरप्रलयः – यथा - इदानीं प्रलयो निरूप्यते - प्रलयो नाम त्रैलोक्यनाशः ।
स च चतुर्विधः - नित्यः प्राकृतो नैमित्तिक आत्यन्तिकश्चेति । तत्र नित्यः प्रलयः सुषुप्तिः ।
तस्याः सकलकार्यप्रलयरूपत्वात् । धर्माधर्मपूर्वसंस्काराणां च तदा कारणात्मनाऽवस्थानम् ।
तेन सुषुप्तोस्थितस्य न सुखदुःखाद्यनुभवानुपपत्तिः । प्राकृतप्रलयस्तु कार्यब्रह्मविनाश-
निमित्तकः सकलकार्यनाशः । यदा तु प्रागेवोत्पन्नब्रह्मसाक्षात्कारस्य कार्यब्रह्मणो
ब्रह्माण्डाधिकारलक्षणप्रारब्धकार्यसमाप्तौ विदेहकैवल्यात्मिका परा मुक्तिः, तदा
तल्लोकवासिनाम् अप्युत्पन्नब्रह्मसाक्षात्काराणां ब्रह्मणा सह
सह विदेहकैवल्यम् ।
... स्थावरादीनां भौतिकानां भूतानां च प्रकृतौ मायायां च लयः न तु ब्रह्मणि । बाधरूप-
विनाशस्यैव ब्रह्मनिष्ठत्वात् । अतः प्राकृत इत्युच्यते । कार्यब्रह्मणो दिवसावसान-
निमित्तकस्त्रैलोक्यमात्रप्रलयः नैमित्तिकप्रलयः । ब्रह्मणो दिवसश्च चतुर्युगसहस्रपरिमितकालः ।
· चतुर्युगसहस्राणि ब्रह्मणो दिनमुच्यते इति वचनात् । प्रलयकालो दिवसकालपरिमितः ।
रात्रिकालस्य दिवसकालतुल्यत्वात् । .... तुरीयप्रलयस्तु ब्रह्मसाक्षात्कारनिमित्तकः
सर्वमोक्षः । स च एकजीववादे युगपदेव । नानाजीववादे तु क्रमेण । सर्व एकीभवन्ति
इत्यादिश्रुतेः । तत्राद्यास्त्रयोऽपि प्रलयाः कर्मोपरतिनिमित्ताः । तुरीयस्तु ज्ञानोदयनिमित्तो
लयोऽज्ञानेन सहैवेति विशेषः । एवं चतुर्विधप्रलयो निरूपितः (वे० प० ७ १०) ।
 
८२
 
अबिक्रियः - विकाररहितः अचिन्त्यः आत्मा । यथा - अत एवाचिन्त्योऽयं
यद्धीन्द्रियगोचरं वस्तु तच्चिन्ताविषयत्वमापद्यतेऽयं त्वात्मानिन्द्रियगोचरत्वाद-.
चिन्त्योऽत एवाविकार्यो यथा क्षीरं दध्यातञ्चनादिना विकारि न तथायमात्मा ।
निरवयत्वाच्चाविक्रियः । न हि निरवयवं किञ्चिद् विक्रियात्मकं दृष्टम् (गी० २/२५
शा० भा०) । अविक्रियम् = परिणामरहितम् । यथा = अपरिणामीत्यर्थः । यद् वा
जायतेऽस्ति वर्द्धते विपरिणमतेऽपक्षीयते विनश्यतीति षड्भावविकारस्तच्छून्यमित्यर्थः
(सं० शा० १/१ सु० टी०) ।
 
-
 
अविचलम् - परिणामरहितम्, यस्य परिणामो न भवेद् ब्रह्मेत्यर्थः । यथा -
अविचलं न परिणामीत्यर्थ: (सं० शा० ३/२९२ अ० टी० ) ।
 
-
 
अविज्ञातम् - विषयत्वेन अविज्ञातम् यथा ब्रह्म । यथा - विषयत्वेनाविज्ञातमेव
ब्रह्म सम्यग् विजानतां विज्ञातमेव विषयतया भवति । यथावदविजानतां दृष्टेश्चक्षुर्जन्यायाः
कर्मभूतायाः द्रष्टारं स्वभावभूतया नित्यदृष्ट्या व्याप्तारं दृश्या अनया न पश्येः । विज्ञाते
बुद्धिधर्मस्य निश्चयस्य विज्ञातारमिति पूर्ववत् (ब्र० सू० १ ।१।४ वे० क० त०) ।