2023-03-12 05:00:26 by ambuda-bot
This page has not been fully proofread.
शाङ्कुरवेदान्तकोशः
८१
रूपं तु तासां तत्त्वम् । तस्य च सर्वत्र प्रत्यभिज्ञायमानत्वान्न विनाश
इत्यवस्थातोऽविनाशान्नावस्थानां निरन्वयो विनाश इति । तासां तत्त्वस्यान्वयिनः
सर्वत्राविच्छेदात् । स्यादेतत् मृत्पिण्डमृद्धटमृत्कपालादिषु सर्वत्र मृत्तत्वप्रत्यभिज्ञानाद्
भवत्वेवम् । तप्तोपलतलपतितनष्टस्य तूदविन्दोः किमस्ति रूपमन्वयि प्रत्यभिज्ञायमानं
येनास्य न निरन्वयो नाशः स्यादित्यत आह अस्पष्टप्रत्यभिज्ञानास्वपीति । अत्रापि
तत्तोयं तेजसा मार्तण्डमण्डलमम्बुदत्वाय नीयत इत्यनुमेयम्, मृदादीनामन्वयिनाम-
विच्छेददर्शनात् । शक्यं च तत्र वक्तुम् - उदबिन्दौ च सिन्धौ च तोयभावो न विद्यते ।
विनष्टेऽपि ततो बिन्दावस्ति तस्यान्वयोऽम्बुधौ । तस्मान्न कश्चिदपि निरन्वयो नाश
इति (ब्र० सू० २ । २।२२) । २. जीवस्य शरीरस्थस्य चतस्रोऽवस्थाः । यथा - स
तु किमवस्थ इति परीक्षायामुच्यते । तिस्रस्तावदवस्था: शरीरस्थस्य जीवस्य प्रसिद्धाः
जागरितं स्वप्नः सुषुप्तमिति । चतुर्थी शरीरापतिः । न तु पञ्चमी काचिदवस्था जीवस्य
श्रुतौ स्मृतौ वा प्रसिद्धास्ति । तस्माच्चतसृणामेवावस्थानामन्यतमावस्था मूर्च्छत्येवं
प्राप्ते ब्रूमः । न तावन् मुग्धो जागरितावस्थो भवितुमर्हति । न ह्ययमिन्द्रियैर्विषयानीक्षते
( व्र० सू० ३/२/१० शा० भा०) । मुग्धो मूर्च्छित इत्यर्थः ।
३. जांग्रत्स्वप्नसुषुप्तिरूपास्तिस्रोऽवस्थाः । चतुर्थी मोक्षावस्था चेति चतुर्विधा
अवस्था इति केचन वेदान्तिनः । जाग्रदवस्था नाम इन्द्रियद्वारा बुद्धेर्विषयाकार-
परिणामः । स्वप्नावस्था च संस्कारमात्रजन्यों बुद्धेर्विषयाकारपरिणामः । सुषुप्त्यवस्था तु
द्विविधा अर्धलयसमग्रलयभेदात् । तत्रार्धलये स्वगतसुखदुःखमोहाकारैव बुद्धिवृत्तिर्भवति
न तु विषयाकारा वृत्तिर्भवति । समग्रलये तु बुद्धिवृतिः सेति विज्ञेयम् । (सिद्धान्तबिन्दौ)
इन्द्रियवृत्तिकालिकार्थोपलम्भो जागरणम् । इन्द्रियवृत्त्यभावकालिकार्थोपलम्भः स्वापः ।
न किञ्चिदवेदिषम् इति कारणमात्रोपलम्भः सुषुप्तिः । ४. कालकृतः परिणामः ।
सा चावस्था जायते अस्ति वर्द्धते विपरिणमते अपंक्षीयते नश्यति इति भावविकारः
षड्विध इति निरुक्तकारो यास्कः ।५. अविद्यास्मितारागद्वेषाभिनिवेशभेदेन पञ्चविधेति
पातञ्जलाः । ६. अनागतांवस्था अभिव्यक्तावस्था तिरोहितावस्थेतिभेदेन त्रिविधेति
साङ्ख्याः । ७. कौमारं पौगण्डं बाल्यं कैशोरं यौवनं तारुण्यं वृद्धत्वं वर्षीयस्त्वमिति
अष्टौ इति पौराणिकाः । ८. वाल्यकौमारयौवनवृद्धत्वभेदेन चतुर्विधेति 'भिषजः ।
९. अभिलाषचिन्तास्मृतिगुणकथनोवेगसंलापाः । उन्मादोऽथ व्याधिर्जडता मृतिरिति
दशकामदशाः इति काव्यज्ञाः । १०. आलाभप्राप्तेरेकमर्यादास्थितस्य सदवस्थानं
सा अवस्था ( स० द० सं० नकुलीशद०) ।