This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
दृष्टिसृष्टिवादमाचक्षते । अस्मिंश्च पक्षे जीव एव स्वाज्ञानवशाज्जगदुपादानं निमित्तं

च । दृश्यं च सर्वं प्रातीतिकम् । देहभेदाच्च जीवभेदभ्रान्तिः । एकस्यैव च स्वकल्पित-

गुरुशास्त्राद्युपबृंहितश्रवणमननादिदार्यादात्मसाक्षात्कारे सति मोक्षः । शुकादीनां

मोक्षश्रवणं चार्थवाद: (सि० बि०१ ) । विशदज्ञानार्थम् आभासवादप्रतिबिम्बवाद-

शब्दावपि द्रष्टव्यौ ।
 
८०
 
-
 

 
अवभासः - , अवभास
मिथ्याज्ञानम् । यथा - अवसन्नोऽवमतो वा भासोऽवभासः ।

प्रत्ययान्तरबाधश्चास्यावसादोऽवमानो वा । एतावता मिथ्याज्ञानमित्युक्तं भवति

(ब्र० सू० अध्यास भाम०) । यथा च - अवसादः उच्छेदः । अवमानो यौक्तिकतिरस्कारः

(तंत्रैव क० त०) । उच्छेदो बाधकंज्ञानोदयानन्तरं भ्रमवृत्त्यन्तरोत्पत्तिप्रतिबन्धः । स

पीतशङ्खविभ्रमादिष्वव्याप्त इति तत्साधारणं पक्षान्तरमुक्तं टीकायामवमतो वेति ।

तत्रावमानशब्दार्थमाह - यौक्तिकेति । तिरस्कारः इच्छाप्रवृत्त्यादिकार्यक्षमत्वापादनम्

(तत्रैव क० त० परि०) ।
 

 
अवमत:
 
, अवमत
 
युक्त्या तिरस्कृतः । अधिकमवभासशब्दे द्रष्टव्यम् ।
 
अबरम् -

 
अवरम्, अवर
कार्यम् । यथा परं कारणम् । अवरं कार्यम् (ब्र० सू० १ १/४

क० त० ) । श्रूयते - श्रीयन्ते चास्य कर्माणि तस्मिन् दृष्टे परावरे (मुण्ड० २।२।८) ।
 
-
 
-
 

 
अवसन्नः - , अवसन्नः
उच्छिन्नः समाप्त इति यावत् । यथा - उच्छेदो बाधकज्ञानोदयानन्तरं

भ्रमवृत्त्यन्तरोत्पत्तिप्रतिबन्धः (ब्र० सू० अध्यासे क० त० परि०) । अधिकम्

अवभासशब्दे द्रष्टव्यम् ।
 
अब

 
अव
स्त्वनुपलम्भम् - , अवस्त्वनुपलम्भ
लोकातीतम् । यथा - अवस्त्वनुपलम्भं न ग्राह्यग्रहणवर्जित-

मित्येतल्लोकोत्तरम् । अत एव लोकातीतम् । ग्राह्यग्रहणविषयो लोकस्तदभावात्

सर्वप्रवृत्तिबीजं सुषुप्तमित्येतदेवं स्मृतं सोपायं परमार्थतत्त्वं लौकिकम् (मा० उ०

गौ० पा० का० ४।८८ शां भा०) ।
 
L
 
-
 
-
 

 
अवस्तु सोपलम्भम् - , अवस्तु सोपलम्भ
लौकिकम् । यथा - अवस्तु सवृत्तेरपि अभावात् । सोपलम्भं

वस्तुवदुपलम्भनमुपलम्भोऽसत्यपि वस्तुनि तेन सह वर्तते इति सोपलम्भञ्च (मा० उ०

गौ० पा० का० ४१८७ शा० भा०) ।
 
--
 

 
अवस्था - , अवस्था
१. वृद्धिक्षयादिधर्मविशेषाः । यथा - अवस्थास्तु विशेषाख्या

उपजनापायधर्माणः तासां सर्वासामनिर्वचनीयतया स्वतो न परमार्थत्वम् । अन्वय्येव