This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
द्यारोपकत्वं हि तत्त्वं मुखादौ तु तद् दृश्यते दर्पणादेरिति । तत्त्वमुपाधित्वमिति यावत् ।
.... इति वार्त्तिकमततत्त्वविवेकमतयोर्जीवोपाध्योरैकरूप्ये सिद्धम् ।... एवं वार्त्तिकमतेऽपि
सिद्धान्तबिन्दौ जहल्लक्षणामाभासवादेनोक्त्वाग्रे जहदजहल्लक्षणाया अपि सर्वसम्मततया
उक्तत्त्वेन तत्त्वविवेकसम्मतप्रतिबिम्बवादस्याप्युक्ताभासवादे पर्यवसानं तदुपाध्यंश-
मिथ्यात्वेन प्रतिबिम्बवादेऽप्याभासवादपर्यवसानमित्युपधेयजीवस्वरूपैक्यमप्युक्तमत-
योर्युक्तमेव । .... विद्यारण्या वदेयुः श्रुतिसमभिमतं वार्त्तिकाचार्यजुष्टम् । चिच्चातुर्विध्य-
मुक्तं द्विविधसरणितः स्पष्टमाभासवादम् । आदौ चित्रपटीनिदर्शनमिषादग्रे घटाकाशतस्तद्-
वारिस्थप्रतिबिम्बखाभ्रगतच्छायादिदृष्टान्ततः । रेखा एव धियो मताः किल ततः
संस्कारसंघाः पटे । ये जाता: परिघट्टिते स तु न ते किं तैः परिच्छिद्यते । एवं तेऽपि
समष्टिधीप्रकृतिमन्मायैकगास्तेन तद् । भेदः कः प्रतिबिम्बिताद् वद परिच्छिन्ने
निरुक्ते भवेत् । अवच्छिन्नो जीवो न तु निगदितो वाक्पतिगिरा। प्रतिच्छायात्मासौ
विवरणकृताद्यैरपि ततः । कथं नो भेदः स्यादिति न हृदयानाकलनतो । द्वयोरप्यादृत्यै
गुरुभिरियमुक्तात्र सरणिः । इत्थमवच्छेदवादप्रतिबिम्बवादयोराभासवादेऽन्तर्भाव
इति । विशदज्ञानार्थं सिद्धान्तबिन्दौ प्रथमश्लोकस्तत्रत्यरलावलीटीका च द्रष्टव्यौ ।
उक्तवादत्रयस्य सम्पत्त्यर्थं चतुर्विधं चैतन्यं कल्प्यते - यथा मूलभूतं निरुपाधिकं
महाकाशम्, जलाद्युपाधिसन्निहितं सोपाधिकं द्वितीयम् आकाशम्, जलान्तर्गतं जलाद्यवच्छिन्नं
तृतीयमाकाशम्, जले प्रतिबिम्बितं चतुर्थमाकाशम्, तथैव मूलं निरुपाधिकं शुद्धं चैतन्यम्
एकम्, अविद्योपाधियुक्तं सोपाधिकं द्वितीयं चैतन्यम्, अविद्यावच्छिन्नम् अविद्यान्तर्गतं
तृतीयं चैतन्यम्, अविद्याप्रतिबिम्बितं च चतुर्थं चैतन्यम् । एवं च प्रतिबिम्बवादे
द्वितीयं चैतन्यमिश्वरस्वरूपं बिम्बं तथा चतुर्थमविद्याप्रतिबिम्बितं चैतन्यं जीवः
इति । अवच्छेदवादे च प्रथमं चैतन्यमीश्वरस्वरूपम्, तृतीयमविद्यावच्छिन्नम-
विद्यान्तर्गतं चैतन्यं जीवः । आभासवादे तु उपाधिविशिष्टस्य चितः आभास एव
जीवः । अस्मिन् पक्षे उपाध्यंशोऽपि मिथ्या आभासांशो जीवोऽपि मिथ्या एवं
शुद्धं चैतन्यमेव सत्यम् । यत्र नानाविद्योपाधितया नानाजीवास्तत्र जीवदृष्ट्या सृष्टं
जगत् । अतो दृष्टिसृष्टिवादः । यत्र एकैवाविद्या तयानुपहित ईश्वरः उपहितश्च जीव
इति पक्षः जीवैक्यवादस्तत्र जीव एव अज्ञानाधीनः जगत उपादानकारणं तथा
निमित्तकारणं तत्र सृष्टिदृष्टिवादः । यथा च - अज्ञानोपहितं बिम्बचैतन्यमीश्वरः ।
अज्ञानप्रतिबिम्बितं चैतन्यं जीव इति वा । अज्ञानानुपहितं शुद्धं चैतन्यमीश्वरः ।
अज्ञानोपहितं च जीव इतिं वा । मुख्यो वेदान्तसिद्धान्त एकजीववादाख्यः । इममेव च
 
-
 
७९