This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
अथावच्छेदपक्षमभ्युपगच्छतां मतमनुसृत्योच्यते । प्रतिबिम्वपक्षो भाष्यकारैरेव न
स्थानतोऽपि (ब्र० सू० ३।२।११) इत्यधिकरणे निराकृतः । .... अतो न क्वाप्यात्मनः
सर्वगतस्य प्रतिबिम्बो युक्त इति ।.... तस्माज्जीवेश्वरोपाधिभ्यां वास्तवतदुभयाभावेन
तत्तद्गुणोपाधिभेदेन चावच्छेदकभेदेन जीवेश्वरशुद्धचैतन्यादीनां भेद आस्थेयः । एवं
जीवेश्वरयोरप्यवच्छेदकभेदेन भेदो भविष्यतीति नानुपपन्नमत्र किञ्चित् । कल्पतरु-
परिमलकारेण अत्र प्रतिबिम्बे एव आभासोऽपि संगृहीतः इति प्रतिभाति । विशद-
विवेचनं स्वीये शङ्कराप्रागद्वैतवादग्रन्थे कृतमस्ति । आभासवादेऽयं दोषो यद् आभासरूपो
जीवो बद्धः केवलं चैतन्यं च मुक्तं तेन बन्धमोक्षव्यवस्था न सेत्स्यतीति शङ्कायां
श्रीमधुसूदनसरस्वतीभिः सिद्धान्तविन्दौ एवं समाहितम् - न चाभासस्यैव बद्धत्वात्
केवलचैतन्यस्य च मुक्तत्वाद् बन्धमोक्षयोर्वैयधिकरण्यम्, स्वनाशार्थं प्रवृत्त्यनुपपत्तेश्चेति
वाच्यम् । केवलचैतन्यस्यैवाभासद्वारा बद्धत्वाभ्युपगमात् । तदुक्तं वार्त्तिककारैः
अयमेव हि नोऽनर्थो यत्संसार्यात्मदर्शनम् (वा०) इति । तेन शुद्धचैतन्यस्याभास
एव बन्धस्तन्निवृत्तिश्च मोक्ष इति न किञ्चिदसमञ्जसम् । आभासवादे एव अवच्छेद-
प्रतिबिम्बवादयोरन्तर्भावः । पञ्चदश्या अच्युतरायपण्डितविरचितपूर्णानन्देन्दुकौमुदी -
व्याख्यायामित्यमस्ति - कूटस्थो ब्रह्मजीवेशावित्येवं चिच्चतुर्विधा । घटाकाशमहाकाशौ
जलाकाशाभ्रखे यथा (प० द० चि० दी० १८) । अस्मिन् प्रकरणे परं हरिहरचतुरानना-
वतारीभूतभगवद्बादरायणश्रीशङ्करभगवत्पादश्रीमत्सुरेश्वराभिधसूत्रभाष्यवार्तिककार
प्रणीतत्वेन त्रिमुनिव्याकरणवत् त्रीश्वरेऽस्मिन् अद्वैतशास्त्रे यथोक्तं मुनीनां
प्रामाण्यमिति न्यायेन स्वोक्तजीवेश्वरस्वरूपसिद्धान्तस्य श्रीमच्चरममुन्याख्यवार्त्तिक-
कृत्सम्मताभासवादेन सहैकमतध्वननार्थं तद्वादस्य चित्रपटघटाकाशादिदृष्टान्तैः
द्विविधसरण्यैव बुभुत्सुबुद्ध्यधिरोहसौकर्यार्थमतुलकरुणयैवोपन्यासः कृतः। तत्र
श्रीमद्वार्त्तिकारसम्मत आभासवादस्तूक्तः सिद्धान्तबिन्दौ । अज्ञानोपहित आत्माऽऽज्ञान-
तादात्म्यापन्नस्वचिदाभासाविवेकादन्तर्यामी साक्षी जगत्कारणमिति च कथ्यते ।
बुद्ध्युपहितश्च तत्तदाम्यापन्नस्वचिदाभासाविवेकाद् जीवः कर्ता भोक्ता प्रमातेति च
कथ्यत इति वार्त्तिककारपादा इत्यादिना अयमेव पक्ष आभासवाद इति गीयत इत्यन्तेन
आभासलक्षणं तूक्तं मया बोधैक्यसिद्धावेव प्रतिबिम्बेशवादारम्भ एव प्रकटार्थकृन्मतं
प्रकृत्य - .. आभासत्वमपि च बिम्बनिघ्नसत्वे सत्येतत् समपरिभासमात्रतैवेति । अधीनो
निघ्न आयत्त इत्यमराद् विम्बाधीनसत्ताकत्वे सतीत्यर्थः । एवं विम्बत्वोपाधित्वे अपि
तत्रैव लक्षिते । यदीयप्रमा स्वप्रयुक्तं भ्रमं न प्रबाधेत तबिम्बमारादुपाधेः । स्वधर्मा-
७८
 
-
 
-