2023-03-12 05:00:25 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
आभासवादो नाम – स्फटिके जपाकुसुमलौहित्यमिव परमात्मन अविद्यायां भासः
प्रतीतिः । यथा - आभास एव चैष जीवः परमात्मनो जलसूर्यादिवत् (ब्र० सू० २ ।३।५०
शा० भा०) जीवो हि नाम देवताया आभासमात्रः (छा० उ० ६ ।३।२ शा० भा०) ।
विशदज्ञानार्थम् आभास शब्दो द्रष्टव्यः ।
७७
प्रतिबिम्बवादो नाम – दर्पणाद्युपाध्यन्तर्गतत्वे सति औपाधिकपरिच्छेदशून्यत्वे
च सति बहिः स्थितस्वरूपकत्वम् प्रतिबिम्बत्वम् (सि० वि० ८ ब्र० टी०) । आभासवादः
प्रतिबिम्बवादश्च समालोचितौ । आभासवादे ब्रह्मातिरिक्तानां सर्वेषां मिथ्यात्वेन
जीवोऽपि मिथ्या स्यात्तेन च बन्धमोक्षव्यवस्था न स्यात् जीवस्य मिथ्यात्वं स्यात्
माध्यमिकमतप्रवेशंश्च स्यात् । प्रतिबिम्बवादे श्री वाचस्पतिमिश्रो दोषमुद्घाटयन् कथयति-
गन्धस्पर्शरसादीनां कीदृशी प्रतिबिम्बता । तथा बिम्बप्रतिबिम्बयोरभेदेन प्रतिबिम्बस्य
सत्यत्वे बिम्बवत् प्रतिबिम्बरूपजीवस्यापि सर्वज्ञत्वाद्यापत्तिस्तथा जीवस्य कदापि
मुक्तिर्न स्यात् । तस्य सत्यत्वात् । एतदर्थमुच्यते - अविद्यायां प्रतिविम्बितो जीवः अतः
असत्य एव । अवच्छेदवादे इदं दूषणं दीयते यद् यथा अन्तःकरणावच्छिन्नं चैतन्यं
जीवस्तथैव घटावच्छिन्नं चैतन्यमपि जीवः स्यात् । एतदर्थमुच्यते अन्तःकरणे
स्वच्छत्वविशेषणं देयम् । यद्येवं तर्हि प्रतिबिम्बवाद एवागतः । आभासवादस्य विशदज्ञानार्थम्
आभास शब्दस्तथा प्रतिबिम्बवादस्य विशदज्ञानार्थं प्रतिबिम्बशब्दो द्रष्टव्यः । ब्र०
सू० १ ।४।४ कल्पतरुपरिमले प्रतिबिम्बवादावच्छेदवादयोरुभयोः सामञ्जस्यं कृतमुभयवादे
दोषमुद्घाट्य दोषोद्धारश्च कृतः । यथोक्तं रूपवत एव प्रतिबिम्व इति नास्ति नियमः ।
रूपसंख्यापरिमाणसंयोगविभागपरत्वापरत्वचलनसुखत्वादिजातीनां प्रतिबिम्बदर्शनात् ।
... संख्याया एव संख्यारूपगुणाश्रयभूताया नीरूपायाः प्रतिबिम्बदर्शनात् । अस्ति हि
संख्यायामपि संख्या । एकत्वं प्रथमसंख्या द्वित्वं द्वितीयसंख्या
तस्माद् रूपवत
एव प्रतिबिम्ब इति नियममवलम्ब्यात्मप्रतिबिम्बनिराकरणमयुक्तम् । किं
प्रतिबिम्बोपाधेर्वस्तुतो रूपवत्त्वं प्रतिबिम्बने प्रयोजकमिष्यते उत रूपवत्त्वेन ग्रहणम् ।
आद्ये नात्मनोऽन्तःकरणे प्रतिबिम्बनानुपपत्तिः । अन्तःकरणस्य त्रिवृत्करणेन
पञ्चीकरणेन वा रूपवत्त्वात् । न द्वितीयः निजरूपवत्त्वेन अगृह्यमाणेऽपि स्फटिके
सन्निहितजपाकुसुमप्रतिबिम्बनेन अरुणः स्फटिक इति व्यवहारदर्शनात् । तस्माद्
निरवद्यः प्रतिबिम्बपक्षः । ....... नच मोक्षस्यानर्थबहुलता । यतः प्रतिबिम्बानामेव
श्यामतावदातते न बिम्बस्य । एवं जीवानामेव नानावेदनादिभिः सम्बन्धः । ब्रह्मणस्तु
बिम्बस्येव न तदभिसम्बन्धः ।.... तस्मात् प्रतिबिम्बपक्ष एवाचार्याणां सिद्धान्त इति ।
●▪●