2023-03-12 05:00:25 by ambuda-bot
This page has not been fully proofread.
D
शाङ्करवेदान्तकोशः
अपरिच्छिन्नस्य व्यापकस्य ब्रह्मणश्चैतन्यस्य अन्तःकरणावच्छेदेन अवच्छिन्नं कृत्वा
अन्तःकरणावच्छिन्नं चैतन्यं जीव इत्युच्यते ।
-
अवच्छेदवादः - सर्वज्ञस्य व्यापकस्य ब्रह्मणश्चैतन्यस्य जीवभावापादानाय
शाङ्करवेदान्ते त्रयो वादाः सन्ति - अवच्छेदवादः आभासवादः प्रतिबिम्बवादश्च । तत्र
अवच्छेदवादः श्रीवाचस्पतिमिश्रस्य आभासवादः आचार्य श्रीसुरेश्वरस्वामिनः प्रतिबिम्बवादः
पञ्चपदिकातविवरणसंक्षेपशारीरककृतां श्रीपद्मपादाचार्यप्रकाशयतिसर्वज्ञात्ममुनीनाम् ।
अत एव एवं प्रसिद्धिः- वाचस्पतेरवच्छेद आभासो वार्त्तिकस्य च । संक्षेपशारीरकृतां
प्रतिबिम्बमिद्वेष्यते। अपरिच्छिन्नस्य अपरिमितस्य व्यापकस्य सर्वज्ञस्य ब्रह्मचैतन्यस्य
अवच्छेदद्वारा आभासद्वारा प्रतिबिम्बद्वारा वा परिच्छिन्नपरिमिताल्पज्ञजीवरूपापादनमेव-
एतेषां त्रयाणां वादानां प्रयोजनम् । एकस्मादपरिच्छिन्नात् परब्रह्मणो मायाकृतोपाधिवशात्
सकलप्रपञ्चः परिच्छिद्यते । यथा - अपरिच्छिन्नादाकाशादुपाधिवशाद् घटाकाश-
पटाकाशादयः परिच्छिद्यन्ते । यथोक्तम् - सत्यमेवैतत् पर एवात्मा देहेन्द्रियमनोबुद्ध्यादिभिः
परिच्छिद्यमानो बालैः शारीर इत्युपचर्यते । यथा घटकरकाधुपाधिवशादपरिच्छिन्नमपि
नभः परिच्छिन्नवदवभासते तद्वत् (ब्र० सृ० १ ।२।६ शा० भा०) । एतेषां सूत्राणां
शाङ्करभाष्येऽयं वादः संकेतितः
ब्र० सू० १/१/५, १/२/६, १/२/२०,
१/३/७, २/१/१३, २१/१४, २१/२२, २३१७, २/३४३२३४६
३/२/१८, १९, २० । वाचस्पतिमिश्रैश्च अविद्योपाधानकल्पितावच्छेदो जीवः
परमात्मप्रतिविम्बकल्पः (२/२/१० ब्र० सू० भाम० ) । यथा च - अज्ञानविषयीभूतं
चैतन्यमीश्वरः । अज्ञानाश्रयीभूतं च चैतन्यं जीव इति वाचस्पतिमिश्राः । अस्मिंश्च पक्षे
अज्ञाननानात्वाज्जीवनानात्वम् । प्रतिजीवं च प्रपञ्चभेदः । जीवस्यैवाज्ञानोपहिततया
जगदुपादानत्वात् । प्रत्यभिज्ञा चातिसादृश्यात् ईश्वरस्य च सप्रपञ्चजीवाविद्याधिष्ठानत्वेन
कारणत्वमुपचारादिति । अयमेव चावच्छेदवादः (सि० वि० १) । अज्ञानम् उपाधिः ।
तच्च अज्ञानं विषयतासम्बन्धेन ईश्वरस्वरूपस्यावच्छेदकं तथा आश्रयतासम्बन्धेन
जीवस्वरूपस्यावच्छेदकम् । अस्मिन् मते जीव एव अविद्यासहायतया जगत् कल्पयति ।
यथान्ये आचार्या व्यवहारसिद्ध्यर्थं कूटस्थम्, ब्रह्म, ईश्वरः जीवश्चेति चत्वारि चैतन्यानि,
शुद्धं जीव ईशश्चेति त्रीणि वा कल्पयन्ति । तदत्र पक्षे चैतन्यद्वयमेव कल्पनीयं भवति
निरुपाधिकः शुद्धः ईश्वरस्तथा जीवः । श्रीवाचस्पतिमिश्रैः रचनानुपत्त्यधिकरणस्य
वाक्यान्वयाधिकरणस्य च भामत्यां प्रतिबिम्बवादः समीक्षितः ।