This page has been fully proofread once and needs a second look.

अलातशाङ्करवेदान्तकोशः
 
न्तिः, अलातशान्तिः - ति
माण्डूक्योपनिषदः श्रीगौडपादस्य माण्डूक्यकारिकाग्रन्थस्य

चतुर्थप्रकरणस्येदं नाम । अस्यार्थः - वैतथ्याद्वैतयोः सिद्धौ अलातवन्मनसः स्पन्दनस्य

शान्तिर्भवति ।
 
-
 
-
 

 
अलातस्पन्दितम् - , अलातस्पन्दित
उल्काचलनम् । यथा - यथा हि लोके ऋजुवक्रादिप्रकारा-

भासमालातस्पन्दितमुल्काचलनं तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः ।

(मा० उ० गौ० का० ४।४७ शा० भा०) । यथा च - यदा खल्वालातं स्पन्दमानमवतिष्ठते

तदा तस्मिन्नन्यतो देशान्तरादागत्याभासा भवन्तीति न शक्यं वक्तुमृजुवक्राद्याभासानां

देशान्तरादागमनस्यानवगमाद् यदा तदेवालातं निस्पन्दनं स्पन्दनवर्जितं वर्तते तदा

तदन्येऽत्राभासा भवन्तीत्यपि न युक्तं वक्तुमनुपलम्भाविशेषात् (मा० उ० गौ० का०

४।४९ आ० गि०) । यथा च श्री गौ० पा० कारिकाः ऋजुवक्रादिका-

भासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा (४।४७)।

अस्पन्दमानमालातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा

(४।४८) । अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततोऽन्यत्र निस्पन्दान्नालातं

प्रविशन्ति ते (४।४९)।
 
-
 
1
 

 
अल्पम् - , अल्प
१. द्वैतम् । यथा - अल्पमेधसाम्-यत्रान्यत् पश्यत्यच्छृणोत्यन्यत्

मनुतेऽन्यद् विजानाति तदल्पम् इति श्रुतेः द्वैतमल्पं तत्रैव मेधा येषां ते (गी० ७।२३

नी० क०) । २. मर्त्यं यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा

तदमृतमथ यदल्पं तन्मर्त्य ँस भगवः..... (छा० उ० २४।१ ) ।
 

 
अवगमः, अवगम
मानम्, फलं च । यथा - प्रत्यक्षावगममवगम्यतेऽनेनेत्यवगमो

मानम्, अवगम्यते प्राप्यते इत्यवगमः फलम् । प्रत्यक्षमवगमो मानमस्मिन्निति स्वरूपतः

साक्षिप्रत्यक्षत्वम्, प्रत्यक्षोऽवगमोऽस्येति फलतः साक्षिप्रत्यक्षत्वम् मयेदं विदितमतो

नष्टमिदानीमत्र ममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः (गी० ९२ म० सू०) ।

यथा च प्रत्यक्षावगमं च प्रत्यक्षः स्पष्टोऽवगमोऽवबोधो यस्य तत् प्रत्यक्षावगमम्

(तत्रैव श्रीधरी) ।
 
-
 

 
अवच्छिन्नो ब्रह्मविकारः, अवच्छिन्नो ब्रह्मविकार
ननु यथावच्छिन्नस्याहङ्कारास्पदस्यानवच्छिन्न-

ब्रह्मात्मतया भवत्यभावः । एवं प्रतीकानामपि भविष्यति ।
 

 
अवच्छेदः
 
, अवच्छेद
परिच्छेदः, परिमितिः, परिमितीकरणम् । यथा अपरिमितस्य
 

आकाशस्य करसम्पुटेन कराकाशकरणेन परिमितीकरणम् । एवमेव अपरिमितस्य