2023-03-12 05:00:25 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
अलातशान्तिः - माण्डूक्योपनिषदः श्रीगौडपादस्य माण्डूक्यकारिकाग्रन्थस्य
चतुर्थप्रकरणस्येदं नाम । अस्यार्थः - वैतथ्याद्वैतयोः सिद्धौ अलातवन्मनसः स्पन्दनस्य
शान्तिर्भवति ।
-
-
अलातस्पन्दितम् - उल्काचलनम् । यथा - यथा हि लोके ऋजुवक्रादिप्रकारा-
भासमालातस्पन्दितमुल्काचलनं तथा ग्रहणग्राहकाभासं विषयिविषयाभासमित्यर्थः ।
(मा० उ० गौ० का० ४।४७ शा० भा०) । यथा च - यदा खल्वालातं स्पन्दमानमवतिष्ठते
तदा तस्मिन्नन्यतो देशान्तरादागत्याभासा भवन्तीति न शक्यं वक्तुमृजुवक्राद्याभासानां
देशान्तरादागमनस्यानवगमाद् यदा तदेवालातं निस्पन्दनं स्पन्दनवर्जितं वर्तते तदा
तदन्येऽत्राभासा भवन्तीत्यपि न युक्तं वक्तुमनुपलम्भाविशेषात् (मा० उ० गौ० का०
४।४९ आ० गि०) । यथा च श्री गौ० पा० कारिकाः ऋजुवक्रादिका-
भासमलातस्पन्दितं यथा । ग्रहणग्राहकाभासं विज्ञानस्पन्दितं तथा (४।४७)।
अस्पन्दमानमालातमनाभासमजं यथा । अस्पन्दमानं विज्ञानमनाभासमजं तथा
(४।४८) । अलाते स्पन्दमाने वै नाभासा अन्यतो भुवः । न ततोऽन्यत्र निस्पन्दान्नालातं
प्रविशन्ति ते (४।४९)।
-
1
अल्पम् - १. द्वैतम् । यथा - अल्पमेधसाम्-यत्रान्यत् पश्यत्यच्छृणोत्यन्यत्
मनुतेऽन्यद् विजानाति तदल्पम् इति श्रुतेः द्वैतमल्पं तत्रैव मेधा येषां ते (गी० ७।२३
नी० क०) । २. मर्त्यं यत्रान्यत् पश्यत्यन्यच्छृणोत्यन्यद्विजानाति तदल्पं यो वै भूमा
तदमृतमथ यदल्पं तन्मर्त्य ँस भगवः..... (छा० उ० २४।१ ) ।
अवगमः – मानम्, फलं च । यथा - प्रत्यक्षावगममवगम्यतेऽनेनेत्यवगमो
मानम्, अवगम्यते प्राप्यते इत्यवगमः फलम् । प्रत्यक्षमवगमो मानमस्मिन्निति स्वरूपतः
साक्षिप्रत्यक्षत्वम्, प्रत्यक्षोऽवगमोऽस्येति फलतः साक्षिप्रत्यक्षत्वम् मयेदं विदितमतो
नष्टमिदानीमत्र ममाज्ञानमिति हि सार्वलौकिकः साक्ष्यनुभवः (गी० ९२ म० सू०) ।
यथा च प्रत्यक्षावगमं च प्रत्यक्षः स्पष्टोऽवगमोऽवबोधो यस्य तत् प्रत्यक्षावगमम्
(तत्रैव श्रीधरी) ।
-
अवच्छिन्नो ब्रह्मविकारः ननु यथावच्छिन्नस्याहङ्कारास्पदस्यानवच्छिन्न-
ब्रह्मात्मतया भवत्यभावः । एवं प्रतीकानामपि भविष्यति ।
अवच्छेदः
परिच्छेदः, परिमितिः, परिमितीकरणम् । यथा अपरिमितस्य
आकाशस्य करसम्पुटेन कराकाशकरणेन परिमितीकरणम् । एवमेव अपरिमितस्य