2023-03-12 05:00:25 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
साक्षात्काराणां ब्रह्मणा सह मोक्षः। कर्मिणां तु धूमादिमार्गेण पितृलोकं गतानामुपभोगेन
कर्मक्षये सति पूर्वकृतसुकृतदुष्कृतानुसारेण ब्रह्मादिस्थावरान्तेषु पुनरुत्पत्तिः (वे० प०
८ प०) । तेषामेषां ब्रह्मादीनां नार्चिराधा गतिर्मार्गोऽस्ति वो युस्माकमप्येतत्
सम्मतमित्यर्थः । .... तस्मादस्या गतेर्निगुणब्रह्मविद्यासम्बन्धित्वं भवद्भिर्वैदिकैर्नैषितव्यं
सगुणविद्यावतां ब्रह्मलोकगमनमार्गोऽयमर्चिरादिर्न साक्षात् मुक्तिमार्गः । साक्षान्मुक्ति-
मार्गस्तु देवानां मनुष्याणां वा ज्ञानोदयसमनन्तरमेवेति (सं० शा० ४।४७ अ० टी०) ।
२. अर्चिरभिमानिनश्चेतना देवताविशेषाः । यथा - ये तावदर्चिमार्गास्ते देहवियोगात्
संपिण्डितकरणग्रामा इत्यस्वतन्त्रा अर्चिरादीनामप्यचेतनत्वादस्वातन्त्रमित्यतोऽर्चि-
राघभिमानिनश्चेतना देवताविशेषा अतियात्रायां नियुक्ता इति गम्यते ( ब्र० सू०
४।३।५ शा० भा०) । यथा च - साधूक्तमातिवाहिका देवतात्मानोऽर्चिरादय इति ।
(ब्र० सू० ४।३।६ शा० भा०) । ३. अयम् अर्चिमार्ग एव अग्निमार्गः ज्योतिर्मार्गः
अहोमार्गः शुक्लमार्गः देवयानम्, उत्तरायणमार्गः इत्यादिपदैर्व्यवह्रियते ।
-
७४
-
अर्चिफलम् - शुक्लार्चिगत्या प्रयाणे मोक्षफलम्, कृष्णार्चिगत्या च पुनर्जन्मादि ।
यथा - शुक्लकृष्णे गती ह्येते जगतः शाश्वते मते । एकया यात्यनावृत्तिमन्ययाऽऽवर्तते
पुनः (गी० ८।२६) । अत्र श्रीधरस्वामी शुक्लार्चिरादिगतिः प्रकाशमयत्वात्, कृष्णाधूमादि-
गतिस्तमोमयत्वात् । एते गती मार्गौ ज्ञानकर्माधिकारिणो जगतः शाश्वते अनादी
सम्मते संसारस्यानादित्वात् । तयोरेकया शुक्लया निवृत्तिं मोक्षं याति अन्यया
कृष्णया तु पुनरावर्तते । अर्चिः = किरणम् । यथा - सहस्रार्चिः सप्तसप्तिर्मरीचिमान्
(वाल्मीकीय रा० ४ आ० हृदये) ।
-
अलातम् .
-
१. उल्का, २. ज्वलदङ्गारः ।
-
-
अलातचक्रम् - ज्वलदङ्गारो भ्राम्यमानो वर्तुलाकारोऽवभासते । स एकदेशस्थोऽपि
वर्तुलचतुर्दिगवस्थित इव प्रतीयते । विभ्रमबोधनार्थम् आलातचक्रोपमा दीयते । जगद्
आलातचक्रवदिति । यथा नहि द्विचन्द्रालातचक्रगन्धर्वनगरादिविभ्रमाः समुद्दिष्टप्रयोजना
भवन्ति (ब्र० सू० २ । १ । ३३ शा० भा०) । यथा च - अलातचक्रमिव स्फुरन्तमादित्यवर्णम्
(मैत्रायणब्राह्मणोपनिषदि ६।२४) । यथा च - अलातचक्रप्रतिमा दृष्टा गोष्पदवत्कृता
(वाल्मीकिरामा० कि० का० ४६।१३) । यथा च - अलातचक्रवत् सैन्यं तदा बभ्राम
तावकम् (म० भा० कर्णप० ८६ (४२) । यथा च-अलातचक्रनिर्माण- स्वप्नमायाम्बुचन्द्रकैः
(आर्यदेवस्य चतुःशतके १३।२५) ।