This page has been fully proofread once and needs a second look.

शावेदान्तकोशः
 
स्वर्गसाधनत्वस्य क्षणिकज्योतिष्टोमयागगततयाऽवगतस्यानुपपत्त्या मध्यवर्त्त्यपूर्वं

कल्प्यते । न चेयमर्थानुपपत्तिरनुमानेऽन्तर्भवितुमर्हति । अन्वयव्याप्त्यज्ञानेनान्वयिन्यनन्त-

र्भावात् । व्यतिरेकिणश्चानुमानत्वं प्रागेव निरस्तम् । अत एवार्थापत्तिस्थलेऽनुमिनोमीति

नानुव्यवसायः। किन्तु अनेनेदं कल्पयामीति । नन्वर्थापत्तिस्थले इदमनेन विनानुप-

पन्नमिति ज्ञानं करणमित्युक्तम्, तत्र किमिदं तेन विनानुपपन्नत्वम् । तदभाव-

व्यापकाभावप्रतियोगित्वम् । इति ब्रूमः । एवमर्थापत्तेर्मानान्तरत्वसिद्धौ व्यतिरेकि

नानुमानान्तरम् । पृथिवीतरेभ्यो भिद्यते इत्यादौ गन्धवत्त्वमितरभेदं विनाऽनुपपन्न-

मित्यादिज्ञानस्य करणत्वात् । अत एवानुव्यवसायः पृथिव्यामितरभेदं' कल्पयामीति

(वे० प० ५ १०) ।
 

 
अरुन्मुखः - , अरुन्मुख
अवेदान्तिनः । यथा- रौति यथार्थं शब्दयति इति रुद् वेदान्तवाक्यं

तद् मुखे येषां ते । (ब्र० सू० १ । १ ।३१ वे० क०) वेदान्तवाक्यमुख इत्यर्थः । एतद्

विपरीतार्थः अरुन्मुखः। अर्थाद् अवेदान्तवाक्यवादी अवेदान्तीति ।
 

 
अर्कः, अर्क
१ . अग्नेर्नाम । यथा - अग्नेरेतद्गौणं नामार्क इति (बृ० आ० उप०

१।२।१ शां० भा० ) । २. सूर्यः ।
 

 
अर्चिः, अर्चि
१ . अर्चिरितिनामक एको मार्गः अयं ज्योतिर्मार्गो देवयानमित्यप्युच्यते ।

तेन उत्तरायणे मृता येन अर्चिमार्गेण गच्छन्ति ते उत्तमां गतिं लभन्ते अनावृत्तिं च

प्राप्नुवन्ति । यथा - अग्निर्ज्योतिरहः शुक्लः षण्मासा उत्तरायणम् धूमो रात्रिस्तथा कृष्णः

षण्मासा दक्षिणायनम् (गी० ८।४) । यत्र काले त्वनावृत्तिमावृत्तिं चैव योगिनः । प्रयाता

यान्ति तं कालं वक्ष्यामि भरतर्षभ (गी० ८।२३) । यथा च आपूर्यमाणपक्षाद्यान्

षड्डुदङेति मासांस्तान् (छा० उ० ४/१५/५) । अथ यत्रैतदस्माच्छरीरादुत्क्रामत्ययैतैरेव

रश्मिभिरुदूर्ध्वमाक्रमते (छा० उ० ८।६।५) । तयोर्ध्वमायन्नमृतत्वमेति (छा० उ०

८।६।६)। तस्माच्छताधिकतया नाड्या निष्क्रामन् रश्म्यनुसारी निष्क्रामतीति गम्यते

(ब्र० सू० ४।२।१८ शा० भा०) । दर्शयति चैतमर्थं श्रुतिः - अमुष्मादादित्यात् प्रतायन्ते

ता आसु नाडीषु सृप्ता आभ्यो नाडीभ्यः प्रतायन्ते तेऽमुस्मिन्नादित्ये सृप्ताः (छा०

८।६।२) (ब्र० सू० ४।२।१९) । इति च श्रौतावेतौ देवयानपितृयाणौ प्रत्यभिज्ञायेते

स्मृतावपीति उच्यते तं काले वक्ष्यामि (गी० ८।२३) (ब्र० सू० ४।२।२१) । यथा

च अग्निरर्चिरादिदेवता ज्योतिरादित्यदेवता (ब्र० सू० ४/२/२१ वे० क० त०) ।

यथा च सगुणोपासकानां चार्चिरादिमार्गेण ब्रह्मलोकं गतानां तत्रैव श्रवणाद्युत्पन्नतत्त्व-