This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
तादृशपीनत्वस्यानुपपत्तिरिति
 
रात्रिभोजनमुपपादकम् । रात्रिभोजनकल्पनारूपायां
 
प्रमितावर्थस्यापत्तिः कल्पनेति षष्ठीसमासेन अर्थापतिशब्दो वर्तते, कल्पनाकरणस्य
पीनत्वादिज्ञाने त्वर्थस्यापत्तिः कल्पना यस्मादिति बहुब्रीहिसमासेन वर्तते इति
फलकरणयोरुभयोस्तत्पदप्रयोगः (वे० प० ५ प्र०) । अत्र षष्ठीसमासबहुब्रीहि
समासाभ्यां फलरूपा प्रमाणरूपा (करणरूपा) च अर्थापतिरिति तात्पर्यम् ।
 
(ख) अर्थापत्तिः - अनुमानम् । वाक्यार्थसम्प्रत्ययेनानभिहितस्यार्थस्य प्रत्यनी-
कभावाद् ग्रहणमर्थापत्तिः (वात्स्या० २ । २ । २) ।
 
७२
 
(ग) अनुपद्यमानेनार्थेनोपपादकमानम् । यथा वृष्ट्या मेघज्ञानम् (गौ० वृ०
२।२।१)।
 
(घ) यत्राभिधीयमानेऽर्थे योऽन्योऽर्थः प्रसज्यते सोऽर्थापत्तिः यथा मेघेष्वसत्सु
वृष्टिर्न भवतीति । किमत्र प्रसज्यते सत्सु भवतीति (वात्स्या० २।२।१ ) ।
 
(ङ) पुनरनुसन्धीयमानशब्दासहकृतमनुपपत्तिं ज्ञानमिति (गदाधरभट्टाचार्यः) ।
(च) उपपाद्यज्ञानेनोपपादककल्पनमर्थापत्तिः । तत्रोपपाद्यमानं
उपपादकज्ञानं फलम् ।
 
करणम् ।
 
सेयमर्थापत्तिर्द्विविधा - यथा - सा चार्थापत्तिर्द्विविद्या- दृष्टार्थापत्तिः श्रुतार्था-
पत्तिश्चेति । तत्र दृष्टापत्तिर्यथा इदं रजतमिति पुरोवर्त्तिनि प्रतिपन्नस्य रजतस्य नेदं
रजतमिति । तत्रैव निषिध्यमानत्वं सत्यत्वेऽनुपपन्नमिति रजतस्य सद्भिन्नत्वं
सत्यत्वात्यन्ताभाववत्वं वा मिथ्यात्वं कल्पयतीति । श्रुतार्थापत्तिर्यथा यत्र श्रूयमाणस्य
स्वार्थानुपपत्तिमुखेनार्थान्तरकल्पनम् । यथा तरति शोकमात्मवित् इत्यत्र श्रुतस्य
शोकशब्दवाच्यबन्धजातस्य ज्ञातनिर्वत्यत्वस्यान्यथानुपपत्त्या बन्धस्य
बन्धस्य मिथ्यात्वं
कल्प्यते । यथा वा जीवी देवदत्तो गृहे नेति वाक्यश्रवणानन्तरं जीविनो गृहासत्त्वं
बहिः सत्त्वं कल्पयति । श्रुतार्थापत्तिश्च द्विविधा - अभिधानानुपपत्तिरभिहितानुप-
पत्तिश्च । तत्र यत्र वाक्यैकदेशश्रवणेऽन्वयाभिधानानुपपत्त्याऽन्वयाभिधानो-
पयोगिपदान्तरं कल्प्यते तत्राभिधानानुपपत्तिः । यथा द्वारमित्यत्र पिधेहि
इत्यध्याहारः, यथा वा विश्वजिता यजेत् इत्यत्र स्वर्गकाम इति पदाध्याहारः ।
.... अभिहितानुपपत्तिस्तु यत्र वाक्यावगतोऽर्थोऽनुपपन्नत्वेन ज्ञातः सन्नर्थान्तरं
कल्पयति । तत्र द्रष्टव्या । यथा स्वर्गकामो ज्योतिष्टोमेन यजेत इत्यत्र