This page has not been fully proofread.

शावेदान्तकोशः
 
७१
 
पुराकल्पः (गौ० २।१।६४) । प्रकारान्तरेण स त्रिविधो गुणवादः, अनुवादः, भूतार्थ-
वादश्चेति (न्या० भ० ४ प्र० ३०) तदुक्तं विरोधे गुणवादः स्यादनुवादोऽवधारिते ।
भूतार्थवादस्तद्वादादर्थवादस्त्रिधा मतः (न्या० म० ४ प्र० ३१) । मीमांसकास्तु
विधिशेषो निषेधशेषो द्वैविध्येन बभाषिरे (लौ० भा० ६।७) ।
 
अर्थवादशब्दार्थः - अर्थस्य प्रयोजनस्य वादो वादनम् । विध्यर्थप्रशंसापरं
वचनमित्यर्थः । अयं वादो हि स्तुत्यादिद्वारा विध्यर्थं शीघ्रं प्रवृत्तये प्रशंसति
(गौ० वृ० २-१-६३)।. निषिद्धार्थं शीघ्रं निवृत्तये निन्दति च । स चायं
अर्थवाद: लोके वेदे च समानः (त० कौ० ४-४) । तत्र लौकिकः ओदनकाम-
स्तण्डुलं पचेत् तृप्तिकामस्तण्डुलौदनं भुञ्जीतेत्यादौ विध्यर्थस्य तण्डुलपाक-
करणस्य तण्डुलौदनभोजनरूपस्य च स्तावकं तण्डुलपाक ऋषिभिः पूर्वं
स्वर्गाद्यर्थकृतः ओदनममृतम् इत्यादिवाक्यम् । एवं कफज्वरपीडितो दुग्धं न
पिबेदित्यादिनिषेधविधिस्थलेऽपि दुग्धपानस्य निन्दकं पशुभिर्भक्षितेनापथ्यतृणादिना
दुग्धं जन्यते, तच्च विषरूपभीत्यादिकं वाक्यम् । वैदिकोदाहरणानि चानुपदं
प्रदर्श्यन्ते । अर्थवादश्च विधिनिषेधभिन्नः शब्दः । यथा आदित्यो यूपः, अग्निर्हिमस्य
भेषजम् वज्रहस्तः पुरन्दरः, इत्यादि (त० कौ० ४ पृ० १७) । आद्यं गुणवादोदा-
हरणम्, द्वितीयमनुवादोदाहरणम्, तृतीयं भूतार्थवादोदाहरणम् ।
 
-
 
अर्थान्तरम् - (क) प्रकृताद् अथवा प्रकरणागतादर्थाद् अन्योऽर्थोऽर्थान्तरम् ।
निग्रहस्थानम्। प्रकृतादर्थादप्रतिसम्बद्धार्थम् अर्थान्तरम् (गौ० ५।२।४) । (ख)
प्रकृतोपयुक्तमर्थमुपेक्ष्यासम्बद्धार्थाभिधानम् । प्रकृतानाकाङ्क्षिताभिधानमिति फलितार्थः।
यथा अनित्यः शब्दः कृतकत्वादित्युक्त्वा शब्दो गुणः स चाकाशस्येत्यादि (गौ० वृ०
५।२।७) (न्यायकोश:) ।
 
अर्थापत्तिः – (क) शाङ्करवेदान्त्यभिमतेषु प्रमाणेषु एकं प्रमाणम् । अन्येऽपि
केचन दार्शनिका इदं प्रमाणं मन्यन्ते । उपपाद्यस्य (कार्यस्य) ज्ञानेन उपपादकस्य
(कारणस्य) कल्पनम् (ज्ञानम्) अर्थापत्तिः प्रमा । अनयोर्द्वयोर्मध्ये उपपाद्यज्ञानम्
प्रमाणम् (कारणं साधनं वा) तथा उपपादकं ज्ञानम् प्रमा (फलम्) अस्ति । यथोक्तम्-
उपपाद्यज्ञानेनोपपादकज्ञानम् अर्थापत्तिः । तत्रोपपाद्यज्ञानं करणम् । उपपादकज्ञानं
फलम् । येन विना यदनुपपन्नं तत् तत्रोपपाद्यम् । यस्याभावे यस्यानुपपत्तिस्तत्
तत्रोपपादकम् । यथा रात्रिभोजनेन विना दिवाऽभुञ्जानस्य पीनत्वमनुपपन्नमिति
 
-