This page has been fully proofread once and needs a second look.

शाङ्कुरवेदान्तकोशः
 
ज्ञानम् (चि० १।१०) । मीमांसकप्राभाकरमते अयर्थार्थबुद्धिः अयथार्थज्ञानं वा

अप्रसिद्धम् । यतो हि सर्वं ज्ञानं सदेव भवति । शुक्तौ इदं रजतमिति ज्ञाने पुरोवर्त्ति

शुक्तिज्ञानरजतस्मरणाभ्यामेव रजतानयने प्रवृत्त्युपपत्तेः (सि० च० १ । १९) ।
 
७०
 
-
 

 
अयथार्थानुभवः - , अयथार्थानुभव
अप्रमा । अनुभवो द्विविधः यथार्थानुभवः अयथार्थानुभवश्च ।

यथा - सर्वव्यवहारहेतुर्गुणो बुद्धिर्ज्ञानम् । सा द्विविधा स्मृतिरनुभवश्च । संस्कारमात्रजन्यं

ज्ञानं स्मृतिः। तद्भिन्नं ज्ञानमनुभवः । स द्विविधः यथार्थोऽयथार्थश्च । तद्वति

तप्रकारकोऽनुभवो यथार्थः सैव प्रमेत्युच्यते । तदभाववति तत्रकारकोऽनुभवोऽयथार्थः ।

सैवाप्रमेत्युच्यते (त० सं० प्र० प० ) ।
 

 
अर्थवादः - , अर्थवाद
प्राशस्त्यपरमथवा निन्दापरं वाक्यमर्थवादः । यथा - अर्थवादानां

तु स्वार्थपरत्वे प्रयोजनाभावादध्ययनविधिवशेन फलवदर्थज्ञानार्थत्वस्यावश्यकत्वाद्

विधेयगतप्राशस्त्यप्रतिपादनद्वारा विध्येकवाक्यतया प्रामाण्यम् । स च चतुर्विधः

निन्दाप्रशंसापराकृतिपुराकल्पभेदात् । (मी०प०) अस्य उपभेदोऽपि । यथा -

विरोधे गुणवादः स्यादनुवादोऽवधारिते। भूतार्थवादस्तद्वादादर्थवादस्त्रिधा मतः ।

इमे त्रय उपभेदा अर्थसंग्रहे । यथा क्रमेण उदाहरणानि - अश्रुजं रजतम्, वायुर्वै

क्षेपिष्ठा देवता, अग्निर्वा अकामयत । तम् अशयद् धिया त्वा वध्यासुः

(तत्रैव) । यथा च - प्रकरणप्रतिपाद्यस्य तत्र तत्र प्रशंसनमर्थवादः । यथा तत्रैव - उत

तमादेशमप्राक्ष्यो येनाश्रुतं श्रुतं भवत्यमतं मतमविज्ञातं विज्ञातम् इत्यद्वितीयवस्तु-

प्रशंसनम् (वे० सा० ६०) । यथा च - अस्य महिमानमिति स्तुतिरूपोऽर्थः, अर्थवादः ।

तच्चेत्थं याज्ञवल्क्यसूत्रमविद्वांस्तं चान्तर्यामिणं ब्रह्मगवीरुदजसे मूर्धा

ते विपतिष्यतीति निन्दारूपोऽर्थवाद: (अ० सि० षड्लिङ्ग) । प्राशस्त्य निन्दान्यतरपर-

वाक्यम् ।
 
-
 
……..
 
-
 

यथा च - वायुर्वै क्षेपिष्ठा देवता इत्यादि, सोऽरोदीतीत्यादि वा । अत्र

च वायव्यश्वेतमालभेत भूतिकामो वायुर्वै क्षैपिष्ठा देवता वायुरेव स्वेन भागधेयेनोपधावति

स एवैनं भूतिं गमयति (कृष्णयजुः संहिता २।१।१ ) । इत्यादौ वायुर्वै क्षेपिष्ठेत्याद्यर्थवादो

हि वायव्य ॐ श्वेतमालभेतेत्यादि विधिविहितं श्वेतपश्वालम्भनं श्वेतपशुकरणको

यागः प्रशस्तः इति प्रशंसतीति विज्ञेयम् । सोऽरोदीद् यदरोदीत् तद्रूद्रस्य रूद्रत्वम् ।

(कृ० य० १-५-१) । इति वाक्यं तु क्रतावृत्विग्भ्यो रजतं न देयम् इति निषिद्धम् ।

रजतदक्षिणादानं निन्दतीति बोध्यम् । अर्थवादश्चतुर्विधः - स्तुतिः, निन्दा, पराकृतिः