2023-03-12 04:59:56 by ambuda-bot
This page has not been fully proofread.
प्रास्ताविकम्
प्रस्तुतोऽयं शाङ्करवेदान्तकोशो
भगवत्पादश्रीशङ्कराचार्यसमादृतौपनिषद -
वेदान्तदर्शनस्य विशिष्टान् शब्दानधिकृत्य विशिष्टमर्थं विवृणोति । तत्रास्यायमुपक्रमो
यत् शब्दं प्रथममुल्लिखति ततः परमर्थं ततः परमुक्तमर्थं प्रमाणयितुं श्रुतिस्मृतिपुराणवचनानि
तत्तच्छास्त्रतत्तदाचार्यवचनानि ग्रन्थप्रकरणश्लोकादिसंख्यासहितानि चोदाहरति । यत्र
चैकस्य शब्दस्यानेकेऽर्थाः सन्ति तत्र प्रथमद्वितीयतृतीयाद्यर्थबोधनार्थम् १, २, ३
एवम्प्रकारेण संख्यां बोधयितुमङ्कान् उल्लिखति । उद्धरणार्थं गृहीतानां ग्रन्थानां प्रतीकानि
बोधयितुम् ( ) इत्येवं प्रकारकं कोष्ठकचिह्नं पुरस्करोति । क्वचित् क्वचिच्च
विशिष्टोद्धरणज्ञापनार्थम् [ ] इत्येवं प्रकारकं कोष्ठकचिह्नं ददाति । यत्र च
न्यायकोशतो वाचस्पत्यकोशतो वा अन्यस्मादपि वा गृहीतं तत्राविकलमंशं गृहीत्वा
तन्नाम सङ्केतयति । यत्र च ग्रन्थांशस्य संक्षेपकरणमावश्यकं तत्र एवं रूपेण
शून्यचिह्नेन मध्यगता ग्रन्थांशा न लिखिता इति सूचयति । व्याख्यायमानशब्दस्य
सम्मुखे - इति चिह्नं निरूपयति । अर्थं प्रमाणयितुं यत्र ग्रन्थांशानुद्धरति तत्रादौ यथा
इति पदमुल्लिखति । अद्वैतवेदान्तदर्शने प्रयुक्तान् शब्दाँस्तु गृह्णात्येव सहैव
अद्वैतदर्शनोपयोगिदर्शनान्तरप्रयुक्तविशिष्टशब्दानपि गृह्णाति । तत्तदर्शनान्तरीय-
शब्दानां तत्तद्दर्शनान्तरसमर्थितमर्थं तत्र तत्र पुरस्करोति । तदर्थं च तत्रत्यानि
प्रमाणान्यपि उपस्थापयति । क्वचित् क्वचिच्च सर्वदर्शनसंग्रह-वाचस्पत्य-न्यायकोशादीनां
ग्रन्थानामुद्धरणावसरे तत्तद्ग्रन्थवाक्यमविकलमुद्धृत्य तत्तद्ग्रन्थनाम स्मरति ।
प्रायशः सार्द्धसहस्रमिताः शब्दा अत्र सगृहीताः । परन्तु तत्रापि नात्र विश्वासः
सन्तोषो वा यद् विशिष्टाः सर्वे तथाविधाः शब्दाः समाविष्टा एव । अपारोऽयं
शास्त्रशब्दरलाकरोऽपारश्चायमर्थरलसमुच्चयः क्व च लघुकृशकायोऽयं कोशः
कियद्रलमाधातुं समर्थः । अतो यत्किञ्चिल्लवलेशं विदुषां पुरस्तादुपस्थापयति, स
एवालं सन्तोषं वोपनयतु । अतो गुणान् गृह्णन्तु दोषान् मार्जयन्त्विति गुणग्राहिणः
सुधीधनान् विनिवेदयति -
वाराणस्याम्
२०५५ वि० सं०
अक्षयतृतीयायाम्
विदुषामाश्रवः
मुरलीधरपाण्डेयः