This page has not been fully proofread.

मृताक्षरस्य हरस्याभिधानान्निदिध्यासनाद् योजनाच्छ्रवणमननात्मकात् तत्त्वभावादपरोक्ष-
ज्ञानादिव स्वमायासंसारलक्षणा निवर्तते (सं० शा० ४।४६ सु० टी०) ।
 
'शाङ्कुरवेदान्तकोशः
 
अम्भः – धुलोकाः । यथा - वाचो लोकः परेण. दिवं धुलोकात् परेण परस्तात्
सोम्भः शब्दवाच्योऽम्भो भरणात् । द्यौः प्रतिष्ठाऽऽश्रयस्तस्याम्भसो लोकस्य (ऐ० उप०
१।२ शा० भा० ) । यथा च धुलोकात्परस्ताद् ये महरादयो लोका यश्च तस्याम्भसो
लोकस्य आश्रयो धुलोकास्ते सर्वेऽम्भः शब्देनोच्यन्ते (तत्रैव आ० गि० टी०) ।
 
अयनम् - मोक्षगमनम् । यथा - अयनाय मोक्षगमनाय । (ब्र० सू० ४ । ३ । १४
वे० क० त० ) ।
 
अयशः अधर्मनिमित्ता कीर्तिः । यथा - अयशस्त्वधर्मनिमित्ता कीर्ति: (गी०
१० ।५ शा०भा०) । अयशस्त्वधर्मनिमित्ता दोषकथनलोकनिन्दारूपा (तत्रैव म० सू०) ।
अयुक्तः - असमाहितमनस्कः । यथा - अयुक्तस्य श्रवणमननयोरनासक्तस्य
बुद्धिब्रह्मात्मैक्यनिश्चयो नास्ति । प्रमाणविषयासम्भावनायाः प्रमेयविषया-
सम्भावनायांश्चानिरासात् । तथायुक्तस्यासमाहितमनसो भावना ब्रह्माकारान्तः-
करणवृत्तिप्रवाहो नास्ति (गी० २।६६ नी० क०) । यथा च - यस्तु पुनरयुक्तोऽसमाहितः ।
(गी० १२/५२ शा० भा०) । यथा च यस्तु पुनरयुक्त ईश्वरायैतानि कर्माणि न मम
फलायेत्यभिप्रायशून्यः (तत्रैव म० सू०) । यथा च - यस्तु पुनरयुक्तोऽसमाहितः
(तत्रैव भाष्यो०) । यथा च - अयुक्तस्तु बहिर्मुखः (तत्रैवश्रीधरी) ।
 
-
 
-
 
अयतिः – वेदान्तवाक्येषु श्रद्धायुक्तः यत्नशीलो यावत् । यथा - अयतिर्यलशीलः ।
अल्पार्थे नञ् । अलवणा यवागुरित्यादिवदयतिरल्पप्रयत्नः श्रद्धया गुरुवेदान्तवाक्येषु
विश्वासबुद्धिरूपयोपेतो युक्तः (गी० ६।३६ म० सू०) ।
 
अयथार्थः असुदर्थः, विशेष्यसमानाधिकरणप्रकारकः अर्थः सदर्थः,
तद्विपरीतः असदर्थ इति यावत् । यथा शुक्तौ रजतम्, रज्जौ सर्पः इति च ।
 
-
 
अयथार्थबुद्धिः (बुद्धेर्भेदः) - १. अत्रायथार्थत्वम् - तदभाववति तत्प्रकारकत्वम् ।
यथा शुक्तौ इदं रजतमिति ज्ञानम् । अत्र प्रसिद्धशुक्तिरजतत्वयोरलीक एव समवायो
भासत इत्यसत्ख्यातिं वाचस्पतिमिश्रा अभिप्रयन्ति (सि० च० १/१९) ।
२. अर्थव्यभिचार्यप्रमाणजन्यं ज्ञानम् (त० भा०) । ३. प्रमाणाभासजन्यं ज्ञानम् (त०
कौ० ६) । तच्छून्ये तन्मतिः (भा०प० गु० श्लो० १२८) ।४. तद्भाववति तप्रकारकं