This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
-
 
-
 
-
 
अमनीभावः, अमनीभावः
मनसो निरोधावस्था अथवा मनसि पुरीततनाड्यां गते सुषुप्तौ

द्वैतस्यासत्त्वम् । यथा - मनोदृश्यमिदं द्वैतं यत् किञ्चित् सचराचरम् । मनसो

ह्यमनीभावे द्वैतं नोपलभ्यते (मा० उ० का० ४।३१ ) । यथा च निरस्तविषयासङ्गं

सन्निरुद्धं मनो हृदि । यदा यात्युन्मनीभावं तदा तत्परमं पदम् (ब्र० बि० उ० ४)।

यथा च - तद्भावे भावात् तदभावेऽभावात् । मनसो ह्यमनीभांवे निरूद्धे विवेक-

दर्शनाभ्यासवैराग्याभ्यां रज्ज्वामिव सर्पे लयं गते वा सुषुप्तौ द्वैतं नोपलभ्यते इत्यभावात्

सिद्धं द्वैतस्यासत्त्वमित्यर्थः (मा० उ० का० १।३१ शा० भा० ) । यथा च यत्ते

चतस्रः प्रदिशः दिशो जगाम दूरम् । तत्र आवर्तयामसीह क्षयाय जीवसे । (ऋ० वे०

१/५८।४) (सायणभाष्येऽस्या ऋचोऽर्थो वलिपरकः कृतो वर्तते) । यथा च - मनो

हि द्विविधं प्रोक्तं शुद्धं चाशुद्धमेव च । अशुद्धं कामसम्पर्काच्छुद्धं कामवर्जितम् ॥

लयविक्षेपरहितं मनंः कृत्वा सुनिश्चलम् । तदा यात्यमनीभावं तदा तत्परमं पदम्

(मैत्रायण्युपनिषदि ४।६, ७) ।
 
-
 
-
 

 
अमर्षः - , अमर्षः
परोत्कर्षासहनरूपचित्तवृत्तिविशेषः । यथा - अमर्षः परोत्कर्षा-

सहनरूपचित्तवृत्तिविशेषः (गी० १२/१५ म० सू०) । तथाभर्षोऽभिलषित-

प्रतिघातेऽसहिष्णुता (तत्रैव शा० भा० ) । अमर्षोऽसहिष्णुता (नी० क० अभिलषित-

प्रतिघातेऽ सहिष्णुतामर्षः (तत्रैव भा०) अमर्षः परस्य लाभेऽसहनम् (तत्रैव श्रीधरी) ।
 
-
 

 
अमात्रः - , अमात्र
ॐकारः अयं मात्रारहितः । यथा - अमात्रश्चतुर्थोऽव्यवहार्यः इत्यादि

(मा० उ० १२) अमात्रो मात्रा यस्य नास्ति सोऽमात्रः अकारोकारः (तत्रैव

मा० उ० वि०) अमात्रोऽनन्तमात्रश्च द्वैतस्योपशमः शिवः (मा० उ० का० २९) ।

मीयतेऽनयेति मात्रा परिच्छितिः न विद्यते मात्रा अस्येत्यमात्रस्तुरीय ओंकारः । (मा०

का० रहस्यविवृतौ) । यथा च - प्रपञ्चोपशमः शिवोऽद्वैतः (मा० उ० १।१२) ।
 

 
अमृतत्वम्, अमृतत्व
ब्रह्मीभावः । यथा
-
 
अमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः ।
अथाकामयमानो योऽकामो निष्काम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति
ब्रह्मैव सन् ब्रह्माप्येति (बृ० आ० ४।४।६) इत्यतः
.....
 
अमृतत्वम् - ब्रह्मीभावः । यथा- अमृतत्वे गत्युत्क्रान्त्योरभावोऽभ्युपगतः ।
अथाकामयमानो योऽकामो निष्काम आप्तकामो भवति न तस्य प्राणा उत्क्रामन्ति
ब्रह्मैव सन् ब्रह्माप्येति (बृ० आ० ४।४।६) इत्यतः ....
(ब्र० सू० ४।२।१२

शा० भा० ) । यथा च - अमृतत्वं च परस्मिन् ब्रह्मण्युपपद्यते न कार्ये विनाशित्वात्

कार्यस्य (ब्र० सू० ४ । ३ । १३ शांभा० ) ।
 
-
 

 
अमृताक्षरम् - , अमृताक्षर
ब्रह्म । यथा- यच्चामृताक्षरं ब्रह्म तदाविद्यकं सर्ववृत्याभिव्यक्तं

सत् । हरतीति हरः । द्योतत इति देवः स क्षरात्मानावीशत ईष्टे । तस्येदृशस्या-