2023-03-12 05:00:22 by ambuda-bot
This page has not been fully proofread.
शाङ्करवेदान्तकोशः
प्रत्ययातिरिक्तः पृष्ठे प्राग्व्याख्यातः स एव योगः (तत्रैव म० सू०) एवमेव
प्रसंख्यानमपि । एतदर्थं प्रसंख्यानशब्दो द्रष्टव्यः ।
अमतिः– अज्ञानम् । यथा - अमतिरज्ञानं तत्पूर्वमित्युदाहृतश्रुतिशासन इत्यर्थः
(सं० शा० ३।२६९ अ० टी०) ।
-
अमनस्कः – मनःसत्त्वेऽपि यदा आत्मसत्त्वानुबोधेन मनसः सत्त्वं निरुद्धं
भवति तदा अमनस्कता उदेति । यथा- आत्मसत्त्वानुबोधेन न संकल्पयते यदा ।
अमनस्तां तदा याति ग्राह्याभावे तदग्रहम् । (मा० उ० का० ३।३२) अयं मनोनाशः
मनोलयः इत्याद्यपि कथ्यते । यथा च - गुणत्रयमयी रज्जुं सुदृढामात्मबन्धनीम् ।
अमनस्कक्षुरेणैव छित्वा मोक्षमवाप्नुयात् (अमनस्कयोगे उत्तरार्द्धे ८९) । यथा संहियते
सर्वमस्तं गच्छति भास्करे । करजालं तथा सर्वमनस्के विलीयते (तत्रैव ९०) ।
इन्द्रियग्राहनिर्मुक्ते निर्वाते निर्मलामृते । अमनस्कहदे स्नातः परमामृतमुपाश्नुते ।
(तत्रैव ९१ ) । इत्युक्तमेततसहजामनस्कं शिष्यप्रबोधाय शिवेन साक्षात् । नित्यं
हि नूनं विगतप्रपञ्चं वाचामवाच्यं स्वयमेव बोध्यम् (तत्रैव ९२ ) ।
अमनस्कयोगः वेदान्तिभिर्योगिभिश्च यो हि मनोनिरोधश्चित्तवृत्तिनिरोध-
निर्विकल्पकसमाधिरादिरभिधीयते स एवोन्नतावस्थामापन्नो योगो बौद्धदार्शनिकै-
रस्पर्शयोगोऽस्पर्शविहारोऽपर्णासमाधिरादिरभिधीयते । तथाप्यत्र अस्ति द्वयोर्मध्ये
भेदः । तत्सर्वमनुक्त्वा सामान्यपरिचयोऽत्राभिधीयते । बौद्धमते सर्वोऽप्यं जागतिकः
प्रपञ्चो ग्राह्यग्राहकाकारावस्थापन्नं मन एव । अतो मनसो ग्राह्यग्राहकाकांरराहित्यमेव
निर्वाणम् । यथा - मप्रवचने पुनर्महामते विकल्पकस्य मनोविज्ञानस्य व्यावृत्तिनिर्वाणम्
(लङ्कावतारसूत्रे) । अत्र अमनीभावो भवति । अर्थात् मनः अमनो भवति मनसः प्रचारो
निरुध्यते । अतः अमनीभावः अमनस्ता अमनस्कं मनोनाशः मनोलय इत्याधुच्यते ।
यथा – अचित्तोऽनुपलम्भोऽसौ ज्ञानं लोकोत्तरञ्च यत् (त्रिंशिकायाम्) । यथा च-
द्वौ क्रमौ चित्तनाशस्य योगो ज्ञानं मुनीश्वर । योगस्तद्वृतिनिरोधो हि ज्ञानं सम्यग-
वेक्षणम् (शाण्डिल्योपनिषदि १।२।२४) ।
-
-
-
:
-
अमनाः – ज्ञानशक्तिशून्यमनस्कः पुरुषः । यथा- तथा ज्ञानशक्तिमन् मनो
यस्य नास्ति सोऽमनाः (ब्र० सू० १/१/४ वे० क० त०) ।