This page has been fully proofread once and needs a second look.

शाङ्करवेदान्तकोशः
 
भावः । अयमेव वाक्यार्थवोध इति शाब्दबोध इति चोच्यते । किञ्च ज्योतिष्टोमेन

स्वर्गकामो यजेतेत्यादौ तप्रत्ययः प्रकृत्यर्थोपस्थित्या भावनामभिधत्ते इति सिद्धे

व्युत्त्पत्तिमभ्युपगच्छतां भट्टाचार्याणां सिद्धान्त इति विज्ञेयम् (सर्व० प्र० २८६

जैमिनि०) । भाट्टनये आकाङ्क्षायोग्यतासन्निधिबलात् तात्पर्यशक्त्या तत्तत्पदार्थानां

सम्बन्धरूपो वाक्यार्थोऽवबुध्यते । यथा - आकाङ्क्षायोग्यतासान्निधिवशाद्

वक्ष्यमाणस्वरूपाणां पदार्थानां समन्वये तात्पर्यार्थो विशेषवपुरपदार्थोऽपि वाक्यार्थः

समुल्लसतीत्यभिहितान्वयवादिनां मतम् (का० प्र० २ । ६ ) । यथा च – किञ्च

पदार्थानामनभिहितानां संसर्गबोधकत्वाभावादभिहितानामेव तदेष्टव्यम् । तथा च

पदार्थानां संसर्गप्रत्ययजननसामर्थ्यं पदानां च पदार्थेषु तत्सामर्थ्याधानसामर्थ्यमिति

द्वयं कल्पनीयमिति कल्पनागौरवमभिहितान्वयवादिनः । अन्विताभिधानवादिनस्तु

पदानां योग्येतरान्वितस्वार्थामिधानसामर्थ्यमेकमेव कल्पनीयमिति कल्पनालाव-

वमित्ययमेव पक्षः श्रेयानिति । किन्तु व्यवहारे भट्टनयः इति रीत्या अद्वैतवेदान्ते

अभिहिताभिधानवाद एव स्वीक्रियते । विशदार्थमन्विताभिधानशब्दो द्रष्टव्यः ।
 

 
अभूताभिनिवेशः - , अभूताभिनिवेश
अभूते द्वये अद्वयनिश्चयः । यथा - यस्मादभूता-

भिनिवेशादसति द्वयेऽद्वयास्तित्वनिश्चयोऽभूताभिनिवेशस्तस्मादविद्याव्यामोहरूपाद्धि

सदृशे तदनुरूपे तच्चित्तं प्रवर्तते (मा० का० ४।७९ शा० भा०) ।
 
-
 

 
अभ्रः - , अभ्र
१. आकाशः । २. उर्ध्वावरोहणमार्गेषु अन्यतमस्यैकस्य मार्गस्य

नाम । यथा-तत्रेयमवरोहणश्रुतिर्भवति - अथ तमेवाध्वानं पुनर्निवर्तते यथेतमाकाशमा-

काशाद् वायुर्भूत्वा धूमो भवति धूमो भूत्वाऽभ्रं भवत्यभ्रं भूत्वा मेघो भवति मेघो

भूत्वा प्रवर्षति (छा० ५/१०/५) इति (ब्र० सू० ३।१।२२ शा० भा० ।)
 

 
अभ्यासः
 
-
 
, अभ्यास
१. ज्ञातस्य पौनःपुन्येन मननम् । यथा- प्रकरणप्रतिपाद्यस्य

वस्तुनस्तन्मध्ये पौनःपुन्येन प्रतिपादनम् अभ्यासः (वे० सा०) । २. अभ्यासयोगः ।

यथा - अभ्यासयोगयुक्तेन मयि चित्तसमर्पणविषयभूते एकस्मिंस्तुल्यप्रत्ययान्तरितोऽभ्यासः

स चाभ्यासो योगः (गी० ८।८ शा० भा०) । यथा च अभ्यासयोगयुक्तेन तत्र स्थितौ

यलोऽभ्यासः इति सूत्रितोऽभ्यासः । तत्र ध्येये वस्तुनि चित्तस्य स्थिरीकरणार्थो यतः

स च विजातीयप्रत्ययानन्तरितसजातीयप्रत्ययप्रवाहीकरणरूपः सोऽत्राभ्यासः ।

(तत्रैव नी० क०) । यथा च अभ्यासः सजातीयप्रत्ययप्रवाहो मयि विजातीय-
.....