This page has not been fully proofread.

शाङ्करवेदान्तकोशः
 
-
 
अभिहिता एव पदार्थाः परस्परमन्वयमयन्ते इति अभिहितान्वयः। प्रथमत एवान्विताः
पदार्थाः अभिदधत इति अन्विताभिधानम् । यथा - अन्यथा हि विस्मृतपूर्ववर्णानां
पदानामन्त्यवर्णमात्राद् यथा न पदार्थावगतिस्तथा विस्मृतपूर्वपदानामपि वाक्यार्थधीर्न
स्यात् । दृश्यते तु सा दीर्घतरेषु वाक्येषु । तस्मात् पदार्थेभ्य एवोपस्थितेभ्यो
विशेषणविशेष्यभावेन संसर्गबोध इत्यभिहितान्वयः (सं० शा० १ । ३७० सु० टी०) ।
अभिहितान्वयवादिमते यथा अखण्डवाक्यार्थज्ञानं यथा च तेन ब्रह्मज्ञानं तदुक्तम्-
परेषामभिहितान्वयवादिनां मोहनिवर्तकमखण्डवाक्यार्थज्ञानं स्मृतित्वात् पदार्थ-
ज्ञानद्वयान्न तु शब्दात् (तंत्रैव १ । ३८५ सु० बो० टी० ) । यथा च परदृशि परात्मनि
प्रत्यगुरूपे स्मृतिसमं यत्पदद्वयजन्यबुद्धियुग्मं तस्मान्मोहनिवर्तनमज्ञानादिबन्धनिवर्तकं
साक्षाद्ब्रह्मज्ञानमिति सिद्ध्यति (तत्रैव १।३८५ अ० टी०) । अत्र त्रयो दोषा गौरवं
वा - आकाङ्कायोग्यतासक्त्यपेक्षा, तात्पर्यावृत्तिस्वीकारस्तात्पर्यार्थ एव वाक्यार्थः सन्
अपदार्थवपुः वाक्यार्थः। अभिहितेषु च पदार्थेषु एका शक्तिः, या स्वरूपसती
वाक्यार्थमनुभावयति । अस्मिंश्च मते वाक्यं न वाक्यार्थं प्रमाणयति । किन्तु अभिहिताः
पदार्थाः एव । तत्र तु पदार्थद्वारकं परम्परया जनकत्वमादाय वाक्यस्यापि प्रमाणत्वेन
व्यवहारः । तदुक्तं शबरभाष्ये- तस्माद् वाक्यव्यतिरेकेऽपि पदार्थान्वयेऽन्वीयमानः
पदार्थनिमित्त एव वाक्यार्थप्रत्ययः । श्लोकवार्त्तिकेऽपि सप्तमे वाक्याधिकरणे
उक्तम् – पश्यतः श्वेतिमारूपं हेषाशब्दं च शृण्वतः । खुरविक्षेपशब्दश्च श्वेतोऽश्वो
धावतीति धीः । दृष्टा वाक्यविनिर्मुक्ता न पदार्थैर्विना क्वचित् ॥ मानसेनापराधेन
पदार्थं ये न गृह्णते । ते तवाक्यं गृहीत्वापि नार्थं गृह्णन्ति कर्हिचित् ॥ (श्लो०
वा०३५७–३६०) । एवमेव न्यायरलेऽपि - क्लृप्तं तावत् पदार्थानामाकाङ्क्षासन्निधि-
योग्यतावशेन सामान्यतोऽन्वयबोधनम् । तद्विशेषनियतस्तत्त्वर्थापत्त्येति । एवमेव
श्लोकवार्त्तिकेऽन्यत्रापि - साक्षायद्यपि कुर्वन्ति पदार्थप्रतिपादनम् । पाके ज्वालेव
काष्ठानां पदार्थप्रतिपादनम् । एवं पदार्थनिष्ठैव वाक्यार्थानुभावशक्तिरिति अभिहितान्वय-
वादाशयः । यथा च अभिहितानां पदोपस्थितानामर्थानामन्वयः संसर्गः संसर्ग-
मर्यादया वाक्यार्थबोधे विषयो भवतीति वादः कथनम् इति व्युत्पत्तिः । भट्ट-
तार्किकाणां मतमेतत् अस्मिन्मते प्रत्येकं तत्तदर्थेषु गृहीतशक्तिकान्येव पदानि
आकाङ्क्षादिसहकृतया तत्तद्वृत्त्या (शक्त्या लक्षणया वा) एव परस्परान्वितं विशिष्ट-
मेकमर्थं बोधयन्ति । विशिष्टार्थबोधने अतिरिक्ताया वाक्यशक्तेरपेक्षा नास्तीति
 
-
 
-
 
-