This page has been fully proofread once and needs a second look.

शारवेदान्तकोशः
 
ब्रह्म उपादानमिष्यते ईश्वररूपं जीवरूपं वा । अत्र संक्षेपशारीरकानुसारिणः

केचिदाहुः- शुद्धमेवोपादानम् । जन्मादिसूत्रतद्भाष्ययोः उपादानत्वस्य ज्ञेयब्रह्मलक्षण-

त्वोक्तेः । तथा च आत्मनः आकाशः सम्भूतः (तै० उ० २।१।१) इत्यादिकारण-

वाक्येषु शबलवाचिनामात्मादिशब्दानां शुद्धे लक्षणैवेति । विवरणानुसारिणस्तु यः

सर्वज्ञः सर्वविद् यस्य ज्ञानमयं तपः । तस्मादेतत् ब्रह्म नाम रूपमन्नं च जायते

(मु० उ० १।१।९) इति श्रुतेः सर्वज्ञत्वादिविशिष्टं मायाशबलमीश्वररूपमेव ब्रह्म

उपादानम् । संक्षेपशारीरके शबलोपादनत्वनिराकरणमपि मायाविशिष्टोपादान-

निराकरणाभिप्रायम्, न तु निष्कृष्टेश्वररूपचैतन्योपादानत्वनिराकरणपरम् । तत्रैव

प्रथमाध्यायान्ते जगदुपादानत्वस्य तत्पदार्थवृत्तित्वोक्तेः । एवं च ईश्वरगतमपि कारणत्वं

तदनुगतमखण्डचैतन्यं शाखाचन्द्रमसमिव तटस्थतयोपलक्षयितुं शक्नोतीति तस्य

ज्ञेयब्रह्मलक्षणत्वोक्तिरिति मन्यन्ते । संक्षेपशारीरककृतस्तु ब्रह्मैवोपादानम् ।
 
……
 

कूटस्थस्य स्वतः कारणत्वानुपपत्तेः ।
.....
 
कूटस्थस्य स्वतः कारणत्वानुपपत्तेः । ....
वाचस्पतिमिश्रास्तु जीवाश्रितमायाविषयीकृतं

ब्रह्म स्वत एव जाड्याश्रयप्रपञ्चाकारेण विवर्तमानतया उपादानमिति । माया

सहकारिमात्रम् । न कार्यानुगतद्वारकारणमित्याहुः । सिद्धान्तमुक्तावलीकृतस्तु माया

शक्तिरेवोपादनम् न ब्रह्म (सि० ले० प्र०प०) ।
 
-
 

 
अभिविमानः, अभिविमान
मानं (परिमाणम्) तद्रहितः जगत्परिमाणकारकश्च परमात्मा

(वैश्वानरः) जागतिकाभिमानरहितश्च । यथा - अभिविमानश्रुतिः । प्रत्यगात्मत्वा-

भिप्रायाप्रत्यगात्मतया सर्वैः प्राणिभिरभिविमीयत इत्यभिविमानः । अभिगतो वायं

प्रत्यगात्मत्वाद् विमानश्च मानवियोगादित्यविभानः । अभिविमिमीते वा सर्वं जगत्

कारणत्वादित्यवभिमानः (ब्र० सू० १।२।३२ शा० भा० ) ।
 
-
 

 
अभिव्यक्तिः - , अभिव्यक्ति
१. प्रमातृचिदुपरागः प्रकटनं च । यथा - घटाद्याकारवृत्त्या तु

तदधिष्ठानचैतन्याभिव्यक्तौ तदवच्छेदेनैव तन्निष्ठावरणाभिभवो जायत इति न

शुद्धात्मप्रकाशापत्तिः (अ० सि० १ १०) । अभिव्यक्तौ प्रमातृचिदुपरागे (तत्रैव

ल० च०) । तैजसमन्तः स्वच्छद्रव्यत्वात् स्वत एव जीवचैतन्याभिव्यञ्जनसमर्थम् ।
 

वृत्त्युत्त्थानानन्तरं चैतन्यमभिव्यनक्ति तदुक्तं विवरणे । (वे० प० ७ प०)

२. व्यञ्जनानामिकया वृत्त्या रसवस्त्वलङ्काराणामभिव्यक्तिर्जायत इति काव्यज्ञाः ।

३. आशयप्रकटनं पदार्थप्रकाशनं वेति लौकिकाः ।
 

 
अभिहितान्वयः
 
-
 
, अभिहितान्वय
वाक्यार्थे पदार्थानामन्वयविषये मीमांसानये मतद्वयमस्ति ।

श्रीकुमारिलभट्टस्य मतमभिहितान्वयवादः । श्रीप्रभाकरस्यमतमन्विताभिधानवादः ।